Enter your Email Address to subscribe to our newsletters

२० जनपदेषु ४००० ओबीसी-युवभ्यः सेना-आरक्षक-नियुक्ति-परीक्षार्थं ४५-दिवसीयं निःशुल्कम् आवासीय-प्रशिक्षणं प्रदास्यते
भोपाल-नगरम्, १५ मईमासः (हि.स.)। मध्यप्रदेशस्य पृष्ठ-वर्ग-अल्पसंख्यक-कल्याण-राज्यमन्त्री (स्वतन्त्र-प्रभार) कृष्णा-गौर: अद्य शुक्रवासरे प्रातः ११ वादने ‘शौर्य-संकल्प-प्रशिक्षण-योजना-२०२६’ इत्यस्य शुभारम्भं करिष्यति। भोपाल-नगरस्य अपेक्स-धनागार-परिसरे स्थिते समन्वय-भवने आयोजिते कार्यक्रमे मध्यप्रदेश-पृष्ठ-वर्ग-आयोगस्य अध्यक्षः डॉ.रामकृष्ण-कुसमरिया तथा विधायकः भगवानदास-सबनानी उपस्थितौ भविष्यतः। भोपाल, रायसेन तथा नर्मदापुरम्-जनपदानां प्रतिभागिनः छात्राः छात्र्यश्च अपि कार्यक्रमे सम्मिलिताः भविष्यन्ति।
राज्यमन्त्री कृष्णा-गौर: सूचनां दत्त्वा उक्तवती यत् मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य मार्गदर्शनेन पृष्ठ-वर्गस्य छात्राणां छात्रीणां च उज्ज्वल-भविष्याय एषा योजना विभागेन आरब्धा अस्ति। एषा योजना प्रदेशस्य २० चयनित-जनपदेषु सञ्चाल्यते। अस्याः उद्देश्यं ओबीसी-वर्गस्य प्रतिभाशालिनः यूनः भारतीय-सेना, आरक्षक, होमगार्ड तथा अन्य-अर्धसैनिक-बलानां नियुक्ति-परीक्षाभ्यः शारीरिक-मानसिक-रूपेण सज्जा: कर्तुम् अस्ति। योजनायां प्रदेशस्य विभिन्न-भागेभ्यः चयनितेभ्यः ४००० प्रतिभागिभ्यः जनपद-स्तरे ४५-दिवसीयं निःशुल्कम् आवासीय-प्रशिक्षणं प्रदास्यते। प्रत्येकस्मिन् जनपदे १००-१०० सदस्यात्मक-समूहेषु पुरुष-महिला-वर्गस्य यूनः पृथक् पृथक्-केन्द्रेषु प्रशिक्षिताः भविष्यन्ति।
राज्यमन्त्री कृष्णा-गौर उक्तवती यत् यूनां सर्वाङ्गीण-विकासाय प्रशिक्षण-कार्यक्रमः अत्यन्तं वैज्ञानिकः सघनश्च निर्मितः अस्ति। अस्मिन् कुशल-प्रशिक्षकैः प्रतिदिनं ४ होराणां सैद्धान्तिक-प्रशिक्षणं तथा ३ होराणां शारीरिक-प्रशिक्षणं प्रदास्यते। प्रशिक्षण-कालस्य मध्ये प्रतिभागिभ्यः निःशुल्क-आवासः भोजनं च सह छात्रवृत्ति:, अध्ययन-सामग्री च प्रदास्यते। राज्यमन्त्री कृष्णा-गौर: उक्तवती यत् एषा योजना युवभ्यः ‘ऐतिहासिकमुपहारम्’ इव अस्ति, या न केवलं तान् रोजगार-अवसरान् प्रदास्यति, अपितु तेषु देश-सेवायाः भावना तथा अनुशासनम् अपि विकसितं करिष्यति।
Hindusthan Samachar / Divya Ranjan