नीट् २०२६-परीक्षा २१ जून-मासे पुन: भविष्यति
नवदिल्ली, १५ मे-मासः (हि.स.)। राष्ट्रीय-परीक्षा-अभिकरणेन (एनटीए) केन्द्र-सर्वकारस्य अनुमोदनानन्तरं नीट् २०२६-परीक्षायाः २१ जूनमासे पुनः आयोजनस्य घोषणा कृता। संस्थया सामाजिक-माध्यमेषु परीक्षार्थिभ्यः अभिभावकेभ्यश्च आह्वानं कृतं यत् ते केवलं एनटीए-अ
neet


नवदिल्ली, १५ मे-मासः (हि.स.)। राष्ट्रीय-परीक्षा-अभिकरणेन (एनटीए) केन्द्र-सर्वकारस्य अनुमोदनानन्तरं नीट् २०२६-परीक्षायाः २१ जूनमासे पुनः आयोजनस्य घोषणा कृता।

संस्थया सामाजिक-माध्यमेषु परीक्षार्थिभ्यः अभिभावकेभ्यश्च आह्वानं कृतं यत् ते केवलं एनटीए-अधिकृत-माध्यमेषु प्रकाशितासु सूचनासु एव विश्वासं कुर्वन्तु। संस्थया कस्यापि सूचनायाः साहाय्यस्य वा कृते neet-ug@nta.ac.in इति ई-मेल-संपर्कः तथा 011-40759000 एवं 011-69227700 इति हेल्पलाइन-संख्ये प्रकाशिते।

अस्मिन् मध्ये ह्यः रात्रौ शिक्षामन्त्रिणः आवासे नीट्-परीक्षां सम्बन्धा उच्चस्तरीया सभाऽपि आयोजिता।

सभायाम् अग्रिम-परीक्षायाः सज्जता, सुरक्षा-व्यवस्था तथा परीक्षा-सञ्चालने सम्बद्धानां विविध-पक्षाणां विषये विस्तृता चर्चा अभवत्। अस्यां सभायां सचिवः (उच्च-शिक्षा), सचिवः (विद्यालय-शिक्षा), एनटीए-महानिदेशकः, सीबीएसई-अध्यक्षः, केन्द्रीय-विद्यालय-सङ्गठनस्य तथा नवोदय-विद्यालय-समित्याः आयुक्तेन सह अनेके वरिष्ठ-अधिकारिणः उपस्थिताः आसन्। अस्यामेव सभायाम् अग्रिम-परीक्षायाः तिथिः अन्तिमरूपेण निश्चिताभवत्।

Hindusthan Samachar / Divya Ranjan