Enter your Email Address to subscribe to our newsletters

नवदेहली, १५ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी-महोदयः शुक्रवासरे संयुक्त-अरब-अमीरात-देशं (यूएई), नीदरलैण्ड-देशं, स्वीडन-देशं, नॉर्वे-देशं तथा इटली-देशं च समाविशन्तीं पञ्च-देशीय-यात्रां कर्तुं देहली-नगरात् प्रस्थितः।
विदेश-मन्त्रालयस्य आधिकारिक-प्रवक्ता रणधीर-जायसवाल-महोदयः ‘एक्स’-माध्यमे उक्तवान् यत्, “प्रधानमन्त्री मोदी-महोदयः पञ्च-देशीय-यात्रायै प्रस्थितः। अस्यां यात्रायां यूएई, नीदरलैण्ड्स्, स्वीडन, नॉर्वे तथा इटली-देशाः समाविष्टाः सन्ति। तस्य प्रथमः प्रवासः यूएई-देशे भविष्यति, यत्र सः राष्ट्रपतिना शेख-मोहम्मद-बिन-जायेद-अल-नाहयान-महोदयेन सह साक्षात्कारं करिष्यति। अग्रिमेषु षट्सु दिनेषु प्रधानमन्त्री अनेकैः वैश्विक-नेतृभिः सह वार्तालापं करिष्यति। अस्य उद्देश्यं भारतस्य वैश्विक-सहभागितां सुदृढां कर्तुम् अस्ति।”
Hindusthan Samachar / Divya Ranjan