Enter your Email Address to subscribe to our newsletters

नवदेहली, 15मेमासः(हि.स.) प्रधानमन्त्रिणा नरेन्द्रमोदिना यु. एईयात्रायाम् 7 महत्त्वपूर्णेषु विषयेषु सहमतिः अभवत्। उभयदेशयोः मध्ये सामरिक-रक्षा-सहभागित्वस्य संरचनायाः विषये सहमतिः अभवत्। ऊर्जाक्षेत्रे व्यूहात्मक-पेट्रोलियम-सञ्चयस्य तथा द्रवीकृत-पेट्रोलियम-गैस् इत्यस्य (एल्. पि. जि.) आपूर्तेः विषये सन्धेः विषये सहमतिः अभवत्। गुजरात्-राज्यस्य वाडिनार्-नगरे नौकायान-जीर्णोद्धार-समूहस्य स्थापनार्थं सहमति-पत्रम् हस्ताक्षरितम्। एतदतिरिच्य, भारतीयसंरचनायाः क्षेत्रे, आर्. बि. एल्. ब्याङ्क्, सम्मान्-क्यापिटल् इत्येतेषु क्षेत्रेषु 5 बिलियन् यू. एस्. डालर्-मूल्यस्य निवेशस्य घोषणा कृता।
विदेशमन्त्रालयस्य अनुसारं, भारत-यू. एईमध्ये व्यूहात्मक-पेट्रोलियम-सञ्चयस्य विषये तथा अबुधाबी-न्याशनल-आयिल्-कम्पनी इत्यस्य च मध्ये कृतस्य सन्धेः उद्देश्यं भारतस्य ऊर्जा-सुरक्षां सुदृढं कर्तुं भवति। एतेन भारतं प्रति अशोधिततेलस्य, एल्. पि. जि. इत्यस्य च निरन्तरपूर्तिं सुनिश्चितं भविष्यति। भविष्ये वैश्विकसङ्कटेषु अथवा तैल-मूल्य-उत्परिवर्तनेषु भारते उपशमनं प्रदातुं एषा सन्धिः साहाय्यं करिष्यति।
एल्. पि. जि. आपूर्ति-सहकार-सन्धेः अन्तर्गतं यु. एईदीर्घकालं यावत् भारताय द्रवीकृत-पेट्रोलियम-वायुः प्रददाति। एतेन भारतस्य आन्तरिकवायु-आवश्यकताः पूरयितुं साहाय्यं भविष्यति। ऊर्जा-सुरक्षां वर्धयन् उभयदेशयोः आर्थिक-सामरिक-सहभागित्वम् अपि सुदृढं करिष्यति।
भारत-यू. एईमध्ये व्यूहात्मक-रक्षा-सहभागित्व-संरचनायाः उद्देश्यं रक्षा-उद्योग-सहकारं वर्धयितुं भवति। अस्य अन्तर्गतं उभयदेशौ रक्षा-तन्त्रज्ञानस्य आदानप्रदानम्, समुद्रीय-सुरक्षा इत्यादिषु क्षेत्रेषु सहकारं वर्धयिष्यन्ति। एतेन द्वयोः देशयोः मध्ये क्षेत्रीयसुरक्षायाः सामरिकबन्धानां च सुदृढीकरणं भविष्यति।
वादिनार्-नगरे नौकायान-मरम्मत-समूहस्य स्थापनायाः सहमतिः भारतस्य समुद्रीय-औद्योगिक-क्षेत्राय नूतनं उत्तेजनं प्राप्स्यति। एतेन नौकायान-मरम्मत-उद्यमस्य वृद्धिः भविष्यति, 'मेक् इन् इण्डिया' अभियानम् अपि सुदृढं भविष्यति। इयं परियोजना स्थानीयस्तरे रोजगारस्य निवेशस्य च अवसरान् अपि वर्धयिष्यति।
नौकायाननिर्माणस्य पुनर्निर्माणस्य च क्षेत्रे कौशलविकाससहयोगस्य उद्देश्यं भारतीय-युवान् आधुनिक-तान्त्रिक-प्रशिक्षणं प्रदातुं भवति। अनेन भारते पोतनिर्माणस्य, पोत-मरम्मतस्य च क्षेत्राय कुशलः मानवसंसाधनः कल्प्यते।
भारते एऐसूपर्-कम्प्यूटिङ्ग्-समूहस्य स्थापनायाः सन्धेः भागरूपेण, यू. एई-आधारितं टेक्निक्-जायण्ट् भारते अत्याधुनिक-दत्तांश-केन्द्रस्य, सूपर्-कम्प्यूटर्-क्षमतायाः च विकासं करिष्यति। अनेन भारतस्य आर्टिफिसियल् इन्टेलिजेन्स्, रिसर्च्, डिजिटल् इन्नोवेशन् मिशन् इत्येतानि त्वरिताः भविष्यन्ति, तथा च टेक्नो-क्षेत्रे नूतन-सम्भावनाः उद्घाटिताः भविष्यन्ति।
यू. एईसंस्थायाः भारते 5 बिलियनमितस्य यू. एस्. डालर निवेशस्य घोषणा भारतीय-मूलसंरचना-परियोजनानां प्रमुखं समर्थनं भविष्यति। अनेन निवेशेन मार्गस्य, नौकाशयस्य, ऊर्जायाः, औद्योगिकक्षेत्रस्य च वृद्धिः भविष्यति। एतेन जीविकानाम् अवसराः वर्धन्ते, आर्थिकक्रियाकलापस्य गतिः वर्धते, भारतस्य विकासस्य गतिः सुदृढः भवति च।
--------
Hindusthan Samachar / Dheeraj Maithani