Enter your Email Address to subscribe to our newsletters

चेन्नई, 15मेमासः, (हि.स.) तमिल्नाडु-राज्यस्य मुख्यमन्त्री जोसेफ विजयस्य कृष्ण-श्वेत-कोट-सूट अद्यत्वे राज्ये नूतनं फ्याशन्-प्रवृत्तिः अभवत्। विपण्याम् एषा शैली सि. एम्. विजय् लुक् तथा थलपति अफिसियल् स्टैल इति नाम्ना विक्रीयते। यूनां विजयस्य च समर्थकेषु अस्य आग्रहः वर्धमानः अस्ति।
सद्यः एव आयोजिते तमिळुनाडुराज्यस्य विधानसभानिर्वाचने तमिझागा वेत्री कझगम् इति पक्षः 108 स्थानानि जित्वा बृहत्तमपक्षत्वेन उद्भूतः। ततः जोसेफ् विजयः 10मेमासीये मुख्यमन्त्रिरूपेण शपथवचनं स्वीकृतवान्। शपथग्रहणसमारोहे, विजयः कृष्णकोटं, श्वेतवस्त्रं, कृष्णप्यांट् च धारयन् सरलं किन्तु प्रभावीं राजनैतिकं स्वरूपं प्रादर्शयत्। ततः परं तस्याः वेषं नगरे चर्चितम् अस्ति।
मुख्यमन्त्री भूत्वा विजयः सचिवालयसभासु, सर्वकारीयकार्यक्रमेषु, सार्वजनिककार्यक्रमेषु च प्रायः तथैव औपचारिकं कृष्ण-श्वेत-वस्त्रविन्यासं स्वीकृत्य दृष्टः अस्ति। तस्य समर्थकाः तत् अनुशासनस्य, सरलतायाः, नेतृत्वस्य च लक्षणम् इति मन्यन्ते।
चलच्चित्र-जगति थलपति इति नाम्ना प्रसिद्धः विजयः स्वशैल्या फ्याशन्-सेन्स इत्यनेन च युवानां मध्ये बहुकालात् लोकप्रियः अस्ति। तस्य केशविन्यासाः, वस्त्राणि, संवादाः च चलच्चित्रेषु बहुधा प्रचलिताः सन्ति। इदानीं, राजनीतिं प्रविष्ट्वा अपि, तस्य फ्याशन्-प्रभावः अक्षुण्णः इव दृश्यते।
तमिल्नाडु-राज्यस्य अनेकेषु नगरेषु वस्त्र-आपणेषु, रेडिमेड्-ब्राण्ड् इत्येतेषु च सि. एम्. विजय् लुक् इति नाम्नः विशेष-कम्बो-प्याक् इत्येतानि प्रारब्धानि। अस्मिन् स्यूटे कृष्णवर्णीयाः पेण्ट्स्, श्वेतवर्णीयाः शर्ट्, कृष्णवर्णीयाः कोट्, कृष्णवर्णीयाः शूस् च सन्ति। अस्य मूल्यं प्रायः 4000 रूप्यकाणि भवति। विक्रेतृणां मते, एषा शैली महाविद्यालयस्य छात्राणां, युवानां, राजनैतिककार्यकर्तृणां च मध्ये सर्वाधिकम् अपेक्षितम् अस्ति।
फ्याशन्-विशेषज्ञाः वदन्ति यत् विजयस्य एतत् रूपं पारम्परिकराजनीतीवस्त्रात् भिन्नम् अस्ति इति। तस्य सरलं तथापि सुन्दरं वेषं आधुनिकस्य व्यावसायिकस्य च नेतृत्वे चित्रं प्रददाति। अतः एषा शैली केवलं राजनैतिकसमर्थकेभ्यः एव सीमितं नास्ति, अपि तु सामान्ययुवाणां मध्ये अपि लोकप्रिया भवति।
विशेषज्ञाः मन्यन्ते यत् आगामि काले न केवलं तमिल्नाडु-राज्ये अपितु दक्षिणभारतस्य अन्येषु राज्येषु अपि सि. एम्. विजय्-रूपं फ्याशन्-प्रवृत्तिरूपेण उद्भूतुं शक्नोति इति।
--------
Hindusthan Samachar / Dheeraj Maithani