बाङ्ग्लादेश-सीम्नि बाडबन्द्यै बीएसएफ-संस्थायै भूमेः हस्तान्तरणस्य रणनीतिः सज्जीक्रियते
कोलकाता-नगरम्, १५ मईमासः (हि.स.)। पश्चिम-बङ्गालस्य मुख्यमन्त्रिणः शुभेन्दु-अधिकारीणः नेतृत्वे विद्यमानस्य भारतीय-जनता-पक्षस्य (भाजपा) सर्वकारेण बाङ्ग्लादेश-सीम्नि लम्बितस्य बाडबन्दी-कार्यस्य त्वरित-सम्पादनार्थं सीमा-सुरक्षा-बलाय (बीएसएफ) भूमेः हस्त
सीमा की फोटो


कोलकाता-नगरम्, १५ मईमासः (हि.स.)। पश्चिम-बङ्गालस्य मुख्यमन्त्रिणः शुभेन्दु-अधिकारीणः नेतृत्वे विद्यमानस्य भारतीय-जनता-पक्षस्य (भाजपा) सर्वकारेण बाङ्ग्लादेश-सीम्नि लम्बितस्य बाडबन्दी-कार्यस्य त्वरित-सम्पादनार्थं सीमा-सुरक्षा-बलाय (बीएसएफ) भूमेः हस्तान्तरणाय त्रिस्तरीया रणनीतिः सज्जीकृता अस्ति। राज्य-सचिवालयस्य सूत्राणां अनुसारं सर्वकारेण सम्पूर्ण-प्रक्रियायाः ४५-दिनानाम् अन्तरे समापनस्य लक्ष्यं निर्धारितम्।

सूत्रैः उक्तं यत् रणनीतेः प्रथम-चरणे अन्तर्राष्ट्रीय-सीम्नः तेषु भागेषु, यत्र अद्यावधि बाडबन्दी न जाता, समीपवर्तिनी उपलब्धा सर्वकारीया भूमिः शीघ्रमेव बीएसएफ-संस्थायै समर्पिता भविष्यति। अनेन कण्टक-तार-स्थापनस्य प्रथम-चरणं त्वरितमेव आरब्धुं शक्यते।

द्वितीय-चरणे सीम्नः समीपस्थानां निजी-भूखण्डानाम् अधिग्रहणं करिष्यते। एतदर्थं भूमेः स्वामिभ्यः वर्तमान-विपण-मूल्यात् अधिकं प्रतिपूरणं दातुं योजना निर्मिता अस्ति। भूम्यधिग्रहणानन्तरं सा भूमिः बीएसएफ-संस्थायै समर्पिता भविष्यति, येन बाडबन्द्याः द्वितीय-चरणस्य आरम्भः सम्भविष्यति।

तृतीय-चरणे सीमा-प्रदेशस्य अतिक्रमिता भूमिः रिक्तीक्रियिष्यते। सर्वकारः एताः भूमय: स्वाधीने कृत्वा बीएसएफ-संस्थायै हस्तान्तरयिष्यति, येन सम्पूर्णा प्रक्रिया सम्पन्ना भविष्यति।

सूत्राणां कथनानुसारं प्रथम-चरणस्य प्रक्रिया पूर्वमेव आरब्धा अस्ति तथा प्रत्येक-चरणार्थं पृथक् काल-सीमा निर्धारिताऽस्ति। सर्वकारस्य कथनम् अस्ति यत् मन्त्रिमण्डलस्य निर्णयात् ४५-दिनानाम् अन्तरे सम्पूर्णम् अभियानं समाप्तं भविष्यति।

राज्यस्य मुख्य-सचिवायै नन्दिनी-चक्रवर्त्यै अस्याः सम्पूर्ण-प्रक्रियायाः निरीक्षणस्य दायित्वं समर्पितम्। सा “विकास-कार्याणां प्रधान-समन्वयिका” इति रूपेण नियुक्ता अस्ति तथा बीएसएफ-संस्थायै भूमेः हस्तान्तरण-प्रक्रियायाः सुचारु-सम्पादनस्य पर्यवेक्षणं करिष्यति।

बाङ्ग्लादेश-सीम्नि बाडबन्द्यर्थं भूमेः उपलब्धतायाः विषयः दीर्घकालात् लम्बितः आसीत्। भारतीय-जनता-पक्षेण विधान-सभा-निर्वाचनात् पूर्वं प्रकाशिते संकल्प-पत्रे एषः प्रमुख-वचनेषु समाविष्टः आसीत्। निर्वाचन-प्रचार-समये केन्द्रीय-गृह-मन्त्री अमित-शाहः अपि उक्तवान् यत् राज्ये भाजपा-सर्वकारस्य गठनानन्तरं बीएसएफ-संस्थायै भूमेः हस्तान्तरणस्य निर्णयः प्राथमिक-निर्णयेषु अन्तर्भविष्यति।

Hindusthan Samachar / Divya Ranjan