Enter your Email Address to subscribe to our newsletters

कोलकाता, 15 मईमासः (हि.स.)।
पश्चिमवङ्गराज्ये महिलानां सुरक्षां सुनिश्चितां कर्तुं नूतनव्यवस्थायाः प्रवर्तनदिशि पदक्षेपः कृतः अस्ति। भाजपाशासनस्य स्थापना अनन्तरं राज्ये महिलाभ्यः टोल-फ्री-सहायतासूचनासङ्ख्यायाः प्रकाशनार्थं निर्देशः प्रदत्तः अस्ति, यः भौगोलिकस्थानानुरेखण-तन्त्रज्ञानस्य सह संयोजितः भविष्यति।
अस्य विषये सूचना प्रददती आसनसोल-दक्षिणक्षेत्रस्य विधायकाऽथ मन्त्री अग्निमित्रा पाल उक्तवती यत् राज्ये महिलाभ्यः पूर्णस्वातन्त्र्यप्रदानस्य दिशि एषा महत्त्वपूर्णा पहलः अस्ति। सा अवदत् यत् अधुना महिलाः कदापि कस्मिंश्चित् समये, कस्यापि आवश्यकतायै गृहात् बहिः गन्तुं शक्नुवन्ति, तथा स्वेच्छया वस्त्रधारणे स्वजीवनशैल्याः अनुसरणे वा कस्यापि प्रकारस्य प्रतिबन्धस्य सामना न करिष्यन्ति।
सा उक्तवती यत् प्रस्ताविता सहायतासूचनासङ्ख्या १८१ भविष्यति, यस्य माध्यमेन आपत्कालस्थितौ सम्पर्कं कृत्वा सम्बन्धितमहिलायाः स्थानं शीघ्रमेव अन्वेष्टुं शक्यते तथा तस्यै त्वरितसहायता प्रदातुं शक्यते। एतस्य अतिरिक्तं राज्यस्य प्रत्येकस्मिन् पुलिस-स्थानके महिला-सहायताकक्षस्य स्थापना अपि योजनारूपेण प्रवर्त्यते, येन महिलासम्बद्धानां विषयाणां संवेदनशीलतया त्वरितं च समाधानं कर्तुं शक्येत।
अग्निमित्रा पाल उक्तवती यत् अस्य योजनायाः उल्लेखः भाजपायाः सङ्कल्पपत्रे अपि कृतः आसीत्, अधुना च तस्य भूमौ कार्यान्वयनस्य प्रक्रिया आरब्धा अस्ति। सा विश्वासं व्यक्तवती यत् राज्यस्य सर्वाभ्यः महिलाभ्यः सुरक्षितं स्वातन्त्र्यपूर्णं च वातावरणं प्रदातुं शासनस्य प्राथमिकता अस्ति।
---------------