Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १५ मे-मासः (हि.स.)। पश्चिमबङ्ग-विधानसभायै शुक्रवासरे नूतनः अध्यक्षः प्राप्तः। कूचबिहार-दक्षिण-क्षेत्रतः भारतीयजनतापक्षस्य (भाजपा) विधायकः रथीन्द्र-बोसः विधानसभाध्यक्ष-पदाय निर्विरोधतया निर्वाचितः। प्रथमवारं विधायकः जातः रथीन्द्र-बोसस्य निर्वाचनं विधानसभायां प्रोटेम-स्पीकर-इत्यस्य तापस-रायस्य निरीक्षणे सम्पन्नम्।
सत्तारूढ-भाजपा-पक्षस्य पक्षतः मुख्यमन्त्री शुभेन्दु-अधिकारी रथीन्द्र-बोसस्य नाम प्रस्तावितवान्, यस्य समर्थनं दिलीप-घोषः कृतवान्। ध्वनिमतेन सः विधानसभायाः नूतनः अध्यक्षः घोषितः। सदनस्य कार्यवाही ‘वन्दे मातरम्’ इति घोषेण आरब्धा। अध्यक्ष-निर्वाचन-समये तृणमूल-काङ्ग्रेस-पक्षस्य विधायकाः सदने उपस्थिताः न आसन्, किन्तु अनन्तरं ते कार्यवाह्यां सम्मिलिताः।
निर्वाचनानन्तरं मुख्यमन्त्री शुभेन्दु-अधिकारी विपक्ष-नेता शोभनदेव-चट्टोपाध्यायश्च रथीन्द्र-बोसं अध्यक्षासनपर्यन्तं नीतवन्तौ। तृणमूल-काङ्ग्रेस-पक्षेण अस्य निर्वाचनस्य विरोधः न कृतः। पूर्व-विधानसभाध्यक्षः बिमान-बन्द्योपाध्यायः अपि रथीन्द्र-बोसाय शुभकामनाः प्रदत्तवान्।
विधानसभायाः परम्परानुसारम् अध्यक्षः ज्ञात्वा रथीन्द्र-बोसः प्रथमं मुख्यमन्त्रिणं वक्तुं अनुमतिं दत्तवान्। मुख्यमन्त्री शुभेन्दु-अधिकारी नूतनाध्यक्षस्य स्वागतं कुर्वन् अवदत् यत् अग्रिमेषु पञ्चवर्षेषु विधानसभा राज्यस्य जनतायाः अपेक्षासु सम्यक् स्थित्वा रचनात्मकरीत्या कार्यं करिष्यति। तेन एतदपि उक्तं यत् विपक्षाय स्वमत-प्रस्तुत्यै पूर्णः अवसरः प्रदास्यते तथा च सदनस्य कार्यवाही बाधिता न भवेत्।
अनन्तरं विपक्ष-नेता शोभनदेव-चट्टोपाध्यायेन सह विभिन्न-पक्षाणां विधायकाः अपि नूतनाध्यक्षाय शुभाशंसाः प्रदत्तवन्तः। नौशाद-सिद्दीकी तथा मोस्ताफिजुर-रहमान-राणा अपि शुभकामनाः प्रदत्तवन्तौ।
रथीन्द्र-बोसः व्यवसायेन चार्टर्ड-अकाउंटेण्ट अस्ति तथा च दीर्घकालं यावत् राष्ट्रिय-स्वयंसेवक-सङ्घेन (आरएसएस) सह सम्बद्धः आसीत्। पश्चात् सः सक्रिय-राजनीतौ प्रविष्टवान्। २०२६-विधानसभा-निर्वाचने सः कूचबिहार-दक्षिण-आसनतः तृणमूल-काङ्ग्रेस-पक्षस्य अभिजीत-डे-भौमिकं २३ सहस्राधिक-मतैः पराजितवान्।सामान्यतया विधानसभाध्यक्ष-पदाय विधिवेत्ता अथवा अधिवक्ता-पृष्ठभूमि-युक्तानां नेतॄणां प्राधान्यम् दीयते स्म, किन्तु भाजपा-पक्षेन रथीन्द्र-बोसं प्रत्याशिनं कृत्वा अस्याः परम्परायाः भिन्नः मार्गः स्वीकृतः। निर्विरोध-निर्वाचनेन सः अधुना पश्चिमबङ्ग-विधानसभायाः नूतनः अध्यक्षः अभवत्।
Hindusthan Samachar / Divya Ranjan