Enter your Email Address to subscribe to our newsletters

बरेली-नगरम्, १६ मईमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदिन: इन्धन-संरक्षण-पर्यावरण-रक्षणयोः आह्वानस्य प्रभावः अधुना बरेली-नगरे अपि दृश्यते। शनिवासरे जनपदे प्रशासनस्य जनप्रतिनिधीनां च अनन्य: प्रयत्न: दृष्ट:, यत्र सर्वकारीय-वाहनानां स्थाने सार्वजनिक-वैकल्पिक-परिवहन-साधनानाम् उपयोगः कृतः। वन-पर्यावरण-राज्यमन्त्री (स्वतन्त्र-प्रभारः) डॉ.अरुण-सक्सेना यत्र ई-रिक्शया विविध-कार्यक्रमेषु गतवान्, तत्रैव जनपदाधिकारी अविनाश-सिंहः अधिकारिभिः सह ई-बसयानम् आरुह्य मीरगञ्ज-तहसीलं प्राप्तवान्। सम्पूर्ण-दिनं एष: प्रयत्न: नगरे चर्चायाः विषयः अभवत्।
मन्त्री डॉ.अरुण-सक्सेना शनिवासरस्य प्रातःकाले सर्वकारीय-वाहन-समूहस्य उपयोगं न कृतवान्। तेन नगरे ई-त्रिचक्रिकया यात्रां कृत्वा जनान् इन्धन-संरक्षणाय प्रदूषण-न्यूनतायै च सन्देशः प्रदत्तः। मन्त्रिणा उक्तं यत् पेट्रोल-डीजलयोः वर्धमाना उपभोग-परिमाणं राष्ट्रस्य कृते चिन्तायाः विषयः अस्ति। यदि जनाः स्वस्य लघु-लघु-आचरणेषु परिवर्तनं कुर्युः, तर्हि व्यापक-स्तरे इन्धन-संरक्षणं कर्तुं शक्यते। तेन उक्तं यत् पर्यावरण-संरक्षणं केवलं सर्वकारस्य उत्तरदायित्वं नास्ति, अपितु प्रत्येकं नागरिकस्य कर्तव्यं वर्तते।
अपरतः जनपदाधिकारी अविनाश-सिंहेन जनपदे सोमवासरं शनिवासरं च ‘नो-व्हीकल्-डे’ इति रूपेण प्रवर्तयितुं प्रयत्न: आरब्ध:। अस्य अन्तर्गतं अधिकारिभ्यः कर्मचारिभ्यश्च निजी-वाहनानां न्यूनतम-उपयोगाय सार्वजनिक-परिवहनस्य, द्विचक्रिकायाः अथवा पदयात्रायाः उपयोगाय प्रेरणा दीयते। शनिवासरे मीरगञ्ज-तहसीले आयोजिते सम्पूर्ण-समाधान-दिवस-कार्यक्रमे सहभागाय जनपदालाधिकारी-सहिताः अनेके जनपद-स्तरीय-अधिकारिणः ई-बसयानेन प्रस्थितवन्तः।
प्रातःकाले जनपदाधिकारी पदयात्रया कलेक्ट्रेट् प्राप्तवान्, यदा सिटी-मजिस्ट्रेट् राजेश-वर्मा द्विचक्रिकया कार्यालयम् आगतः। अधिकारिणां एष: प्रयत्न: जनानां आकर्षणस्य केन्द्रं जात:। अनेकैः जनैः एषः सकारात्मक-परिवर्तनरूपेण प्रशंसितः।
डीएम अविनाश-सिंहः अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदी तथा मुख्यमन्त्री योगी-आदित्यनाथः निरन्तरम् इन्धन-संरक्षण-पर्यावरण-रक्षणयोः विषये जनान् जागरूकान् कुर्वन्ति। तस्यैव क्रमस्य अन्तर्गतं बरेली-प्रशासनेन एतत् पदं गृहीतम्। तेन उक्तं यत् अनेन केवलम् इन्धनस्य संरक्षणं न भविष्यति, अपितु प्रदूषणं यातायात-सम्मर्दश्च अपि न्यूनी भविष्यतः।
जनपदाधिकारी सूचितवान् यत् प्रशासनं शीघ्रमेव बार्-एसोसिएशन, व्यापार-मण्डलानि सामाजिक-संस्थाश्च अस्मिन् अभियाने सम्बद्धतां कर्तुं आह्वास्यति, येन अधिकाधिकाः जनाः सार्वजनिक-परिवहनस्य वैकल्पिक-साधनानां च स्वीकृत्यै प्रेरिताः भवेयुः।
/ Dheeraj Maithani