Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १६ मे-मासः (हि.स.)। असमे भारतमाला-परियोजना तथा असम-माला ३.० इत्यस्य अन्तर्गतं प्रचलमानानि मार्ग-राजमार्ग-निर्माणकार्याणि राज्यस्य सम्पर्क-व्यवस्थां शीघ्रतया सुदृढां कुर्वन्ति। एताः परियोजनाः पूर्वोत्तर-भारतस्य आर्थिक-गतिविधीनां, वाणिज्यिक-सम्पर्कस्य, सामरिक-संरचनायाः च सुदृढीकरणस्य दिशि महत्त्वपूर्णं पादक्षेपं मन्यन्ते।
असमे राज्य-सर्वकारस्य केन्द्र-सर्वकारस्य च संयुक्त-प्रयत्नेन ३२०० कोटि-रुप्यकाधिक-व्ययेन ९०० किलोमीटराधिक-मार्गाणां निर्माण-विकास-कार्यं प्रगतौ अस्ति। परियोजनानां उद्देश्यं नगरैः सह ग्रामीण-दूरवर्ती-क्षेत्राणामपि उत्तम-मार्ग-जालैः संयोजनम् अस्ति।
अस्मिन् क्रमे एव राष्ट्रीय-राजमार्ग-३७ अन्तर्गतः सिलचर-बुद्धनगर-खण्डः चतुर्पंक्ति-मार्गरूपेण विस्तारः क्रियमाणः अस्ति। अपरतः डिमा-हसाओ-जनपदे २२९ किलोमीटर-दीर्घस्य आधुनिकस्य आपदा-प्रतिरोधक-राजमार्गस्य निर्माणकार्यं प्रचलति। अयं मार्गः भू-स्खलनस्य दुर्वातावरणस्य च स्थितौ अपि यातायातं सुचारुरूपेण धारयितुं साहाय्यं करिष्यति।एतदतिरिक्तं एन.एच.-३०६ अन्तर्गतस्य सिलचर-वैरेङ्गते-सैराङ्ग-मार्गस्य चतुर्पंक्ति-निर्माणकार्यं अपि तीव्रगत्या प्रचलति। अस्य परियोजनायाः पूर्णतया सम्पन्ने सति असम-मिजोरम-राज्ययोः मध्ये यातायातस्य वाणिज्यिक-सम्पर्कस्य च विशेष-सुदृढता भविष्यति इति अपेक्षा अस्ति।
विशेषज्ञाः मन्यन्ते यत् एतासां परियोजनानां सम्पन्नतया यात्राकालस्य न्यूनता भविष्यति, परिवहन-व्ययः न्यूनः भविष्यते, लॉजिस्टिक्स-व्यवस्था च अधिका प्रभावी भविष्यति। पर्यटन-क्षेत्रं, कृषि-क्षेत्रं, चाय-उद्योगः, लघु-वाणिज्य-क्षेत्राणि च अस्य व्यापकं लाभं प्राप्स्यन्ति इति सम्भावना व्यक्ता।
सीमावर्ती-संवेदनशील-क्षेत्रेषु उत्तम-मार्ग-सम्पर्कः सामरिक-दृष्ट्या अपि महत्त्वपूर्णः मन्यते। एतेन सुरक्षा-बलानां आपत्कालीन-सेवानां च शीघ्र-आवागमनं सुनिश्चितं भविष्यति।
यद्यपि भूम्यधिग्रहणं, पर्यावरणीय-प्रभावः, सम्भाव्य-विस्थापनं च अधिकृत्य काश्चन चिन्ताः अपि प्रकटिताः। विशेषज्ञैः विकास-कार्यैः सह पर्यावरण-संरक्षणस्य स्थानीय-हितानां च समतोलस्य विषये विशेष-ध्यानस्य आवश्यकता उक्ता।
भारतमाला तथा असम-माला ३.० परियोजनाः असमं पूर्वोत्तर-भारतस्य प्रमुख-सम्पर्क-केन्द्ररूपेण विकसितुं दिशि महान् प्रयत्नः इति मन्यन्ते।
Hindusthan Samachar / Divya Ranjan