Enter your Email Address to subscribe to our newsletters

नवदेहली, १६ मे-मासः (हि.स.)। केन्द्रीय-माध्यमिक-शिक्षा-संघेन नवम-दशम-कक्षाभ्यां कृते त्रि-भाषा-व्यवस्था प्रवर्तिता। एतासु भाषासु न्यूनातिन्यूनं द्वे भाषे भारतीये भवितुम् अनिवार्ये स्तः। नूतना व्यवस्था अस्मिन्नेव वर्षे जुलाई-मासस्य प्रथम-दिनात् प्रवर्तिष्यते।
सी.बी.एस.ई. इत्यस्य पक्षतः १५ मे-दिने निर्गते परिपत्रे उक्तं यत् एषः निर्देशः राष्ट्रीय-शिक्षा-नीतेः (एन.ई.पी.) २०२० तथा राष्ट्रीय-विद्यालय-शिक्षा-पाठ्यक्रमस्य (एन.सी.एफ.-एस.ई.) २०२३ अनुरूपः अस्ति। एतत् परिवर्तनं २०२६-२७ शैक्षणिक-सत्रस्य नवीनतम-एन.सी.ई.आर.टी.-पाठ्यक्रमस्य समीक्षायाः अनन्तरं कृतः।
संघेन उक्तं यत् विद्यार्थिभिः तिस्रः भाषाः अध्येतव्याः। तासु न्यूनातिन्यूनं द्वे भारतीय-भाषे भवितुम् आवश्यक्यौ। तथापि दशम-कक्षायां तृतीय-भाषायाः कृते काचिद् बोर्ड-परीक्षा न आयोज्यते।
सी.बी.एस.ई. इत्यनेन स्पष्टं कृतं यत् तृतीय-भाषायाः मूल्याङ्कनं पूर्णतया विद्यालय-स्तरे आन्तरिक-रीत्या च भविष्यति। विद्यार्थिनां प्रदर्शनस्य उल्लेखः सी.बी.एस.ई.-प्रमाणपत्रे भविष्यति, किन्तु कश्चन छात्रः तृतीय-भाषायाः आधारेण बोर्ड-परीक्षातः वञ्चितः न भविष्यति।
विदेशीय-भाषाः केवलं तृतीय-भाषारूपेण अथवा वैकल्पिक-चतुर्थ-भाषारूपेण चयनं कर्तुं शक्यन्ते। बोर्ड-इत्यनेन उक्तं यत् नूतन-व्यवस्थायाः प्रवर्तन-काले नवम-कक्षायाः छात्राः अधुना षष्ठ-कक्षायाः तृतीय-भाषा-पुस्तकैः अध्ययनं करिष्यन्ति। येषु विद्यालयेषु भाषा-शिक्षकाणां न्यूनता अस्ति, तत्र अन्तर्जाल-शिक्षणम्, विद्यालयानां मध्ये संसाधन-सहभागकरणं तथा निवृत्त-शिक्षकाणां साहाय्य-ग्रहणम् इत्यादयः व्यवस्थाः स्वीकृताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan