Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १६ मे-मासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे उत्तरप्रदेश-सर्वकारः कृषकाणां आय-वृद्ध्यर्थं कृषिं च लाभप्रदां कर्तुं निरन्तरं महत्त्वाकाङ्क्षिण्यः योजनाः सञ्चालयति। अस्यैव क्रमस्य अन्तर्गतं “क्षेत्र-तडाग-योजना” कृषकाणां कृते अत्यन्तं लाभप्रदा सिद्धा भवति।
राष्ट्रीय-कृषि-विकास-योजनायाः अन्तर्गतं सञ्चाल्यमानायाः “क्षेत्र-तडाग-योजनायाः” मुख्य-उद्देश्यं वर्षाजलस्य सञ्चयनं कृत्वा कृषकेभ्यः सिञ्चनार्थं स्थायी-सौविध्यं प्रदातुम् अस्ति। अद्यत्वे भूगर्भ-जलस्य स्तरः निरन्तरं अधः गच्छति, अतः एषा योजना कृषकाणां कृते वरदानरूपेण सिद्धा भवति। क्षेत्रेषु निर्मिताः तडागाः वर्षाजलं संरक्षन्ति, येन अनावृष्टेः समयेऽपि कृषकाणां कृते सिञ्चनार्थं जलम् उपलब्धं भवति।
अर्धं व्ययं सर्वकारः वहति
अस्याः योजनायाः अन्तर्गतं २२ मीटर×२०मीटर×३मीटर-परिमाणयुक्तः तडागः निर्मीयते। अस्य आहत्य व्ययः १,०५,००० रूप्यकाणि निर्धारितः अस्ति, यस्मिन् सर्वकारेण ५२,५०० रूप्यकाणां अनुदानं दीयते। अर्थात् अर्धं व्ययं सर्वकारः एव वहति। अनेन लघु-सीमान्त-कृषकाः अपि अस्याः योजनायाः लाभं सुगमतया प्राप्नुवन्ति।
सिञ्चनेन सह अतिरिक्त-आयस्य अवसराः
एषा योजना केवलं सिञ्चन-सीमिता नास्ति, अपितु कृषकेभ्यः अतिरिक्त-आयस्य नवान् अवसरान् अपि प्रददाति। क्षेत्र-तडागेषु कृषकाः मत्स्य-पालनं, मुक्ताफल-उत्पादनं, सिंहाडा-उत्पादनं तथा अन्य-जलीय-कृषिं कर्तुं शक्नुवन्ति। अनेन कृषकाणां कृते आयस्य बहूनि स्रोतांसि विकसितानि भवन्ति। योजनायाः अन्तर्गतं स्प्रिङ्कलर-सेट-यन्त्रेषु ८० तः ९० प्रतिशत-पर्यन्तम् अनुदानं प्रदीयते। पम्प-सेट्-यन्त्रेषु च १५,००० रूप्यकाणि अथवा ५० प्रतिशत-पर्यन्तं सहायता प्रदीयते। अनेन कृषकाणां सिञ्चन-व्ययः न्यूनः भवति तथा जलस्य उत्तम-उपयोगः सुनिश्चितः भवति।
आत्मनिर्भर-कृषेः दिशि महत् पदम् : आर.पी.कुशवाहा
कानपुर-नगरस्य भूमिसंरक्षण-अधिकारी आर.पी.कुशवाहा अवदत् यत् प्रदेश-सर्वकारः कृषिं आत्मनिर्भरां प्रौद्योगिकी-आधारितां च कर्तुं विशेषं ध्यानं ददाति। जल-संरक्षणस्य माध्यमेन कृषेः सुरक्षा, कृषकाणां आधुनिक-सिञ्चन-प्रणाल्या सह संयोजनं तथा कृष्या सह मत्स्य-पालनादीनां क्रियाकलापानां प्रोत्साहनं सर्वकारस्य दूरदर्शिनीं नीतिं दर्शयति। अद्य प्रदेशस्य सहस्रशः कृषकाः अस्याः योजनायाः माध्यमेन स्वीयाम् आयं वर्धयन्ति। खेत-तालाब-निर्माणेन सस्यानाम् उत्पादकता वर्धते तथा कृषकाणाम् ऋतौ निर्भरता न्यूनाभवति।
Hindusthan Samachar / Divya Ranjan