भारते चतुर्विंशतिहोराः कार्यशैल्याः न्यायव्यवस्थायाः आवश्यकता, प्रौद्योगिक्या सामान्यजनान् प्रति न्यायस्य प्रापणम् आवश्यकम् : न्यायमूर्तिः सूर्यकान्तः
जबलपुरनगरम्, १६ मे-मासः (हि.स.)। भारतस्य न्यायपालिका अधुना चिकित्सालयानामिव चतुर्विंशतिहोराः कार्यशैल्याः व्यवस्थायाः दिशि अग्रे गन्तुम् अर्हति। डिजिटल-परिवर्तनस्य अस्मिन् काले सामान्यजनानां विश्वासस्य संरक्षणमपि तावत् एव आवश्यकम् अस्ति। प्रौद्योगि
फ्रेगमेंटेशन ऑफ फ्यूजन एम्पावरिंग जस्टिस वाया यूनाइटेड डिजिटल प्लेटफार्म इंटीग्रेशन का रिमोट से शुभारंभ


फ्रेगमेंटेशन ऑफ फ्यूजन एम्पावरिंग जस्टिस वाया यूनाइटेड डिजिटल प्लेटफार्म इंटीग्रेशन सेमिनार का शुभारंभ


समारोह में एनुअल रिपोर्ट : 2025 का विमोचन


जबलपुरनगरम्, १६ मे-मासः (हि.स.)। भारतस्य न्यायपालिका अधुना चिकित्सालयानामिव चतुर्विंशतिहोराः कार्यशैल्याः व्यवस्थायाः दिशि अग्रे गन्तुम् अर्हति। डिजिटल-परिवर्तनस्य अस्मिन् काले सामान्यजनानां विश्वासस्य संरक्षणमपि तावत् एव आवश्यकम् अस्ति। प्रौद्योगिकी-आधारित-मञ्चाः तादृशाः भवेयुः ये ग्रामीणैः तथा प्रौद्योगिक्यां न्यूनपरिचितैः जनैः अपि सुगमतया अवगन्तुं शक्येरन्। एतदर्थं स्थानीयस्तरे पैरालीगल-वालण्टियर-जनाः सज्जीकर्तव्याः, ये जनान् डिजिटल-न्याय-प्रणाल्या सह संयोजयितुं शक्नुयुः।

एतानि वचनानि देशस्य उच्चतम-न्यायालयस्य मुख्यन्यायाधीशः न्यायमूर्तिः सूर्यकान्तः शनिवासरे मध्यप्रदेशस्य जबलपुर-नगरे आयोजिते राष्ट्रिय-सङ्गोष्ठ्यां उक्तवान्। “फ्रेगमेंटेशन ऑफ फ्यूजन एम्पावरिंग जस्टिस वाया यूनाइटेड डिजिटल प्लेटफार्म इण्टीग्रेशन” इति विषये आयोजितेऽस्मिन् कार्यक्रमे उच्चतम-न्यायालयस्य उच्च-न्यायालयस्य च अनेके न्यायाधीशाः, केन्द्रीय-विधि-न्याय-राज्यमन्त्री अर्जुनराम-मेघवालः तथा मुख्यमन्त्री डॉ.मोहनयादवः अपि उपस्थिताः आसन्।

अस्मात् पूर्वं नेताजी-सुभाषचन्द्र-बोस-सांस्कृतिक-सूचना-केन्द्रे आयोजितायां सङ्गोष्ठ्यां देशस्य मुख्यन्यायाधीशः न्यायमूर्तिः सूर्यकान्तः “फ्रेगमेंटेशन ऑफ फ्यूजन एम्पावरिंग जस्टिस वाया यूनाइटेड डिजिटल प्लेटफार्म इण्टीग्रेशन” इत्यस्य शुभारम्भम् अकरोत्। अस्मिन् अवसरे “एनुअल-रिपोर्ट् : २०२५” इत्यस्यापि विमोचनं कृतम्।

लघवः डिजिटल-पदक्षेपाः भविष्ये महत्क्रान्तेः आधाराः भविष्यन्ति

मुख्यन्यायाधीशः सूर्यकान्तः नर्मदा-नद्याः उदाहरणं दत्त्वा अवदत् यथा अमरकण्टकात् निर्गता लघुधारा अग्रे गत्वा विशालं स्वरूपं धारयति, तथैव न्यायव्यवस्थायां क्रियमाणाः लघवः प्रौद्योगिकी-सुधाराः अग्रिमकाले व्यापक-परिवर्तनस्य आधाराः भविष्यन्ति। तेन उक्तं यत् अद्यतनकाले प्रारब्धाः डिजिटल-मञ्चाः तथा अनुप्रयोगाः न्याय-प्रणालीं अधिक-पारदर्शिनीं, शीघ्रां प्रभाविनीं च कर्तुं साहाय्यं करिष्यन्ति।

तेन उक्तं यत् मध्यप्रदेशे आरक्षक-स्थानकानां, फॉरेन्सिक-प्रयोगशालानां, चिकित्सकीय-प्रणाल्याः, विधिक-कोषस्य, न्यायालयस्य तथा कारागारस्य सूचनाः एकस्मिन् एकीकृत-डिजिटल-मञ्चे संयोजयितुं प्रयासः कृतः अस्ति। एतत् अभिनवं प्रयत्नम् इति वर्णयन् तेन उक्तं यत् भविष्ये अस्य आदर्शस्य देशव्यापिन्या कार्यान्वयनस्य दिशि कार्यं भविष्यति।

कृत्रिमबुद्धिमत्तया लम्बित-प्रकरणानां समाधानस्य प्रयासः

न्यायमूर्तिः सूर्यकान्तः अवदत् यत् न्यायिक-प्रणाल्यां कृत्रिमबुद्धिमत्तायाः उपयोगस्य विषये विशेष-समितिः गठिता अस्ति। एषा समितिः लम्बित-प्रकरणानां शीघ्र-निस्तारणस्य प्रक्रियाणां च अधिक-सक्षमीकरणस्य उपायेषु कार्यं करोति। तेन संकेतः दत्तः यत् अग्रिमकाले अस्मिन् विषये विस्तृता सूचना सार्वजनिकी करिष्यते। तेन उक्तं यत् भारतीय-न्यायपालिका प्रौद्योगिकी-स्वीकारस्य विषये पूर्वमेव अग्रणी आसीत्। कोविड्-महामार्याः समयेऽपि न्यायालयानां कार्यं न बाधितम् अभवत् तथा च भारतस्य डिजिटल-न्याय-आदर्शस्य अन्ताराष्ट्रिय-स्तरे प्रशंसा अभवत्।

डिजिटल-व्यवस्थया प्राचीन-समस्याः पुनः न भविष्यन्ति

देशस्य मुख्यन्यायाधीशः स्वानुभवान् वदन् एकस्य प्राचीन-प्रकरणस्य उल्लेखम् अकरोत्, यस्मिन् जामिन-इत्यादेश-समये कारागारं प्रति न प्रापितः, अतः आरोपितः दीर्घकालं यावत् बद्धः आसीत्। तेन उक्तं यत् नूतन-डिजिटल-प्रणाल्याः प्रवर्तनानन्तरं एतादृशाभ्यः स्थितिभ्यः बहुधा परिहारः शक्यः भविष्यति तथा न्यायिक-प्रक्रिया अधिक-संवेदनशीला त्वरिता च भविष्यति।

मध्यप्रदेशः अधुना डिजिटल-न्याय-आदर्शः भविष्यति : मेघवालः

केन्द्रीय-विधि-मन्त्री मेघवालः अवदत् यत् मध्यप्रदेश-उच्च-न्यायालयस्य एषः प्रयत्नः सामान्यः नास्ति। तेन उक्तं यत् पूर्वं डिजिटल-पुलिस-जालस्य उदाहरणरूपेण चण्डीगढ-नगरस्य नाम गृहीतम् आसीत्, किन्तु अधुना मध्यप्रदेशः आदर्शः भविष्यति। तेन विशेषरूपेण सङ्केत-भाषा-आधारित-डिजिटल-मञ्चस्य प्रशंसा कृता तथा उक्तं यत् श्रवण-वाक्-असमर्थान् जनान् अपि न्याय-प्रक्रियया सह संयोजयितुं एषः प्रयत्नः देशे स्वप्रकारस्य अद्वितीयः उपक्रमः अस्ति। तेन उच्च-न्यायालय-प्रशासनेन शुभकामना दत्ता।

विक्रम-बेताल-कथाभ्यः न्याय-व्यवस्थायाः सन्देशः : मुख्यमन्त्री

मुख्यमन्त्री डॉ.यादवः अवदत् यत् न्यायस्य चर्चा भवेत् तथा सम्राट् विक्रमादित्यस्य उल्लेखः न भवेत्, एतत् असम्भवम्। तेन उक्तं यत् विक्रमादित्यस्य न्याय-परम्परा अद्यापि आदर्शरूपेण स्वीक्रियते। विक्रम-बेताल-कथाः केवलं मनोरञ्जनार्थं न, अपितु प्रशासनस्य, नीत्याः न्यायस्य च गूढ-सन्देशान् ददति। मुख्यमन्त्री अवदत् यत् विज्ञानं प्रौद्योगिकी च मानवजीवनं सुकरं कृतवन्तौ तथा लोकतन्त्रस्य सुदृढीकरणे न्यायपालिकायाः सर्वाधिकं महत्त्वपूर्णं योगदानम् अस्ति। न्यायव्यवस्थायां प्रचलन्तः प्रौद्योगिकी-नवाचाराः सामान्यजनानां विश्वासं अधिकं दृढं करिष्यन्ति।

डिजिटल-न्याय-व्यवस्थायाः भविष्ये मन्थनम्

सङ्गोष्ठ्यां ई-कोर्ट-प्रणाली, दत्तांश-एकीकरणम्, यूनिफाइड-डिजिटल-प्लेटफार्म तथा प्रौद्योगिकी-आधारित-न्याय-व्यवस्था इत्यादिषु विषयेषु विस्तरेण चर्चा कृता। विशेषज्ञानां मतम् अस्ति यत् एतत् आयोजनं देशस्य भावी-डिजिटल-न्याय-प्रणाल्याः दिशा-निर्धारणे महत्त्वपूर्णः सिद्धः भवितुम् अर्हति। कार्यक्रमस्य समापनावसरे अतिथिभिः सांस्कृतिक-कार्यक्रमे भागं गृहीतवतां बालकानां सम्मानं कृतम्। अस्मिन् काले एकस्याः बालिकायाः पुरस्कार-प्रदानानन्तरं मुख्यन्यायाधीशः सूर्यकान्तः तां स्वक्रोडे धृत्वा स्नेहं प्रदर्शितवान्, येन सभागारः करतलध्वनिभिः गुञ्जितः अभवत्। तेन सर्वेषां प्रतिभागि-बालकानां उत्साहवर्धनं कृत्वा तेषां प्रस्तुतिनां प्रशंसा कृता।

/ Dheeraj Maithani