Enter your Email Address to subscribe to our newsletters




भोपाल-नगरम्, १६ मईमासः (हि.स.)। मध्यप्रदेशस्य नीमच-जनपदस्य हर्बल-मण्डी औषधीय-मसाला-सस्यानां कृषकाणां कृते देशव्यापी-महत्त्वपूर्ण-केन्द्ररूपेण उदिता अस्ति, यत्र जड़ी-बूटी-उत्पादेभ्यः ५०० रूप्यकेभ्यः आरभ्य २ लक्ष-रूप्यक-पर्यन्तं प्रति-क्विण्टल-मूल्यं लभ्यते। उत्तम-तुला, समये भुगतान-व्यवस्था तथा सर्वकारीय-सुविधानां कारणेन अनेक-राज्येभ्यः कृषकाः अपि स्व-उपजं गृहीत्वा नीमच-मण्डीं प्रति आगच्छन्ति।
जनसम्पर्क-अधिकारी क्रान्तिदीप-अलूने शनिवासरे सूचितवान् यत् एषा हर्बल-मण्डी देशस्य एका एव मण्डी अस्ति, यत्र कण्टकाः, पुष्पाणि, पत्राणि, त्वक्, बीजानि, वल्कलानि, मूलानि च विक्रयन्ते। कृषकाणां विविध-औषधीय-सस्यानां कृते ५०० रूप्यकेभ्यः आरभ्य २ लक्ष-रूप्यक-पर्यन्तं प्रति-क्विण्टल-मूल्यं प्राप्यते। नीमच-मण्ड्याः प्रसिद्धिं दृष्ट्वा गुजरात, कर्नाटक, राजस्थान, महाराष्ट्र, उत्तरप्रदेश तथा छत्तीसगढ-राज्येभ्यः कृषकाः स्व-फसलानि गृहीत्वा अत्र आगच्छन्ति।तेन उक्तं यत् अप्रैल-मास-पर्यन्तं मण्ड्यां पर्याप्ता आयातं भवति, मई-मासस्य अन्तिम-सप्ताह-पर्यन्तं शनैः न्यूनं भवति। कृषकाः निराशाः न भवन्ति, यतः सर्वप्रकारस्य जड़ी-बूटी-विक्रयः भवति। मुख्य-मण्डी-प्राङ्गणे १६ शेड-इति सन्ति। एषा एव एका मण्डी अस्ति, यत्र ४०-५० प्रकाराणां औषधीय-पादपानां क्रयः निविदा-प्रक्रियया भवति। मसाला-फसलानां क्रय-विक्रयस्य देशस्य बृहत्तमा एका मण्डी अपि एषा एव अस्ति।
नीलेश-पाटीदारः नीमच-जनपदस्य बृहद्-कृषकः अस्ति। तस्य ४५ एकड्-भूमिः अस्ति तथा परिवारस्य १२ सदस्याः सन्ति। सः गत-द्वि-त्रि-वर्षेभ्यः मसाला-सस्यानां कृषिं करोति। सः कथयति यत् ईसबगोल, ईरानी-अकरकारा, चिरायता, अजवायन, किनोवा, चिया-बीज, तुलसी-बीजादीनां सस्यानां उत्तम-मूल्यं लभ्यते। लशुनस्य अपि उत्तम-मूल्यं प्राप्यते। तस्मै अस्मिन् विषये प्रसन्नता अस्ति यत् मुख्यमन्त्री डॉ.मोहन-यादवः औषधीय-सस्य-उत्पादनाय कृषकान् प्रोत्साहयति। सः वदति यत् यदि सर्वकारः जड़ी-बूटी-कृषेः पद्धतिनां विषये उत्तम-प्रशिक्षणं दास्यति तर्हि उत्तमानि परिणामानि भविष्यन्ति। वर्तमानकाले सर्वकारतः सर्वाः आवश्यक-सुविधाः प्रदीयन्ते। सर्वकारस्य साहाय्यं, अस्माकं परिश्रमश्च। जड़ी-बूटी-उत्पादक-कृषकाणां कृते नीमच-मण्डी महान् आधारः अस्ति।
प्रह्लाद-सिंहः रतलाम-जनपदस्य आजमपुर-डोडिया-ग्रामे निवसति। तस्मै अश्वगन्धा-अकरकारा-बीजयोः विक्रयात् उत्तम-मूल्यं प्राप्तम्। मण्ड्यां समये निविदा भवति तथा सुलभतया सस्य-विक्रयः अपि सम्भवति। कृषकाणां कृते कापि समस्या न भवति। मण्ड्याः सर्वेषां जनानां व्यवहारः अत्युत्तमः अस्ति। सर्वकारेण अस्मादृशानां लघु-मध्यम-कृषकाणां कृते मण्ड्यां उत्तम-व्यवस्थाः कृताः।
पञ्चम-सिंहः अपि अस्य ग्रामस्य कृषकः अस्ति तथा अजवायनम्, अश्वगन्धां च विक्रयार्थम् आनयति। तस्मै त्वरितं प्रदानं भवति। मण्ड्याः व्यवस्थाः अत्युत्तमाः जाताः। सः वदति यत् अधुना मण्ड्याः प्रसिद्धिः दूरं दूरं प्रसृता। गुजरात, कर्नाटक, राजस्थान, महाराष्ट्र, उत्तरप्रदेश तथा छत्तीसगढ-राज्येभ्यः कृषकाः दीर्घ-दूरं गत्वा अत्र स्व-उत्पादान् विक्रयन्ति। उत्तम-तुला, श्रेष्ठ-मूल्यं, त्वरित-भुगतानं च कारणं सर्वे अत्र आगन्तुं इच्छन्ति। ईसबगोल, अश्वगन्धा, कलौंजी, शतावरी, श्वेत-मूसली, केसर, सर्पगन्धा, अकरकारा-मूलादीनां फसलानां मूल्यं उच्चं भवति तथा तेषां मागणी अपि सर्वदा भवति।
मण्ड्याः विशेषताः वर्णयन् मण्डी-सचिवः उमेश-बसेडिया-शर्मा अवदत् यत् समये नीलामी, गुणवत्तायुक्ता तुला तथा प्रदान-व्यवस्था कृषकाणां कृते वरदानरूपेण सिद्धा अभवत्। कृषकहिताय निरन्तरं सुविधाः वर्ध्यन्ते। वित्तीय-प्रबन्धनम् अपि निरन्तरं सुदृढीकृतम्। वर्षे २०२४-२५ मध्ये ६४.१६ लक्ष-क्विण्टल-परिमाणस्य तथा २०२५-२६ मध्ये ७२.४० लक्ष-क्विण्टल-परिमाणस्य आवक् अभवत्। तेन उक्तं यत् मण्ड्या कृषकहिताय सर्वाः व्यवस्थाः सुदृढीकृताः। राष्ट्रीय-पादप-संघेन अपि पञ्च-सार्ध-कोटि-रूप्यकाणां अनुदानं मण्ड्याः अधोसंरचना-विकासाय प्रदत्तम्। इलेक्ट्रॉनिक-नाप-तौल-व्यवस्था तथा प्रत्यक्षतया व्यापारिणां गोदामेषु प्रेषण-व्यवस्था अपि कृता। एतत् मण्डी-प्राङ्गणं १०.९ हेक्टेयर-परिमाणे विस्तृतम् अस्ति। प्रायः ११०० अनुज्ञापत्र-प्राप्त-व्यापारिणः अस्यां सम्बद्धाः सन्ति तथा १५० अधिकाः तुलावटी-कार्मिकाः उपलब्धाः भवन्ति।
औषधीय-सस्य-उत्पादने देशे अग्रणी मध्यप्रदेशःमध्यप्रदेशः औषधीय-सस्य-उत्पादने देशस्य अग्रणी-राज्यम् अस्ति। प्रदेशे ४६,८३७ हेक्टेयर-क्षेत्रे ईसबगोल, श्वेत-मूसली, कोलियस् इत्यादीनां औषधीय-फसलानां कृषिः क्रियते। वर्षे २०२४-२५ मध्ये प्रदेशे प्रायः सवा-लक्ष-मीट्रिक-टन-परिमाणस्य औषधीय-फसल-उत्पादनम् अभवत्। देशे विदेशे च औषधीय-सस्यानां वर्धमान-याचनाया: कारणेन कृषकाः एतासां सस्यान् प्रति आकर्षिताः अभवन्।
उल्लेखनीयम् अस्ति यत् देशस्य औषधीय-फसल-उत्पादनस्य ४४ प्रतिशतं मध्यप्रदेशे उत्पाद्यते। मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य निर्देशानुसारं औषधीय-पादप-कृषेः प्रोत्साहनं क्रियते तथा कृषकेभ्यः अनुदानं अन्य-सुविधाश्च प्रदीयन्ते। औषधीय-पादप-कृष्या कृषकाणां आय-वृद्धये रोजगार-अवसर-सृजनाय च प्रयत्नाः क्रियन्ते। राज्य-सर्वकारः औषधीय-पादप-कृषेः कृते कृषकेभ्यः २० प्रतिशततः ५० प्रतिशत-पर्यन्तं अनुदानं ददाति। औषधीय-पादपानां कृष्या संग्रहणेन च ग्रामीण-प्रदेशेषु रोजगार-अवसराः अपि उत्पद्यन्ते। प्रदेशे प्रमुखतया अश्वगन्धा, श्वेत-मूसली, गुडूची, तुलसी तथा कोलियस् इत्यादीनां बहूनां औषधीय-सस्यानाम् उत्पादनं भवति।
/ Dheeraj Maithani