नेपालस्य मिथिलाञ्चल-प्रदेशे श्रद्धया उल्लासेन च वट-सावित्रीपर्व आचरितम्
काठमाण्डू-नगरम्, १६ मईमासः (हि.स.)। नेपालस्य मिथिलाञ्चल-तराई-मधेश-प्रदेशेषु शनिवासरे वट-सावित्री-पर्व श्रद्धया भक्त्या पारम्परिक-उल्लासेन च आचरितम्। अस्मिन् अवसरे सुवासिनी-महिलाभिः स्व-पतिनां दीर्घायुषः, परिवारस्य सुख-समृद्धेः, सन्तान-प्राप्तेः च क
नेपाल के मिथिला क्षेत्र महिलाओं द्वारा वट सावित्री की पूजा


काठमाण्डू-नगरम्, १६ मईमासः (हि.स.)। नेपालस्य मिथिलाञ्चल-तराई-मधेश-प्रदेशेषु शनिवासरे वट-सावित्री-पर्व श्रद्धया भक्त्या पारम्परिक-उल्लासेन च आचरितम्। अस्मिन् अवसरे सुवासिनी-महिलाभिः स्व-पतिनां दीर्घायुषः, परिवारस्य सुख-समृद्धेः, सन्तान-प्राप्तेः च कामनया व्रतं धृत्वा सम्पूर्ण-विधि-विधानेन पूजार्चना कृता।

ज्येष्ठ-मासस्य अमावास्या-तिथौ आचर्यमाणस्य अस्य महत्त्वपूर्ण-धार्मिक-पर्वणः समये प्रातःकालादेव विविधेषु ग्रामेषु नगरेषु च वट-वृक्षाणां अधः पूजां कुर्वन्तीनां महिलानां विशालः समूहः दृष्टः। महिलाः पारम्परिक-वस्त्र-भूषणैः अलङ्कृत्य पूजा-स्थलेषु उपस्थिताः अभवन् तथा सम्पूर्ण-विधि-विधानेन व्रत-अनुष्ठानं सम्पन्नवत्यः।

वट-सावित्री-पर्वणः अवसरे नवविवाहित-महिलानां कृते श्वशुर-पक्षतः पूजा-सामग्री, वस्त्राणि अन्य-उपहाराश्च प्रेषयितुं परम्परा अपि निर्वुढा। स्थानीय-भाषायाम् एते उपहाराः ‘पाहुर’ इति कथ्यन्ते। एषा परम्परा मिथिलाञ्चलस्य सांस्कृतिक-परिचयस्य महत्त्वपूर्णः अंशः मन्यते।

वास्तवतः हिन्दू-धर्मे वट-वृक्षः अत्यन्तं पवित्रः मन्यते। मान्यता अस्ति यत् अस्मिन् वृक्षे देवतानां वासः भवति, अतः महिलाः वट-वृक्षं परितः कच्च-सूत्रं परिवेष्ट्य पूजां कुर्वन्ति तथा वट-सावित्री-कथायाः श्रवणं कुर्वन्ति।

पौराणिक-कथानुसारं माता-सावित्री स्वस्य अटूट-सतीत्वेन, तपस्यया, दृढ-संकल्पेन च मृत्योः देवतात् यमराजात् स्व-पतेः सत्यवानस्य प्राणान् पुनः प्राप्तवती आसीत्। अस्याः घटनायाः स्मृत्यर्थं प्राचीन-कालात् वट-सावित्री-पर्वणः परम्परा प्रचलिता अस्ति।

धार्मिक-मान्यता अस्ति यत् एतत् व्रतं वैवाहिक-जीवने सुखं, पतेः दीर्घायुः तथा सन्तान-प्राप्तेः आशीर्वादं प्रददाति। एतदेव कारणं यत् महिलासु अस्य पर्वणः विषये विशेषः उत्साहः श्रद्धा च दृश्यते।

पूर्वं एतत् पर्व मुख्यतया मिथिलाञ्चल-प्रदेशे एव सीमितम् इति मन्यते स्म, किन्तु कालान्तरेण अधुना नेपालस्य अन्य-समुदायानाम् महिलाः अपि एतत् व्रतम् आस्थया परम्परया च आचरन्ति। अनेन एतत् पर्व सामाजिक-सांस्कृतिक-समरसतायाः प्रतीकरूपेण अपि विकसितं भवति।

हिन्दुस्थान-समाचारः॥

/ Dheeraj Maithani