नेदर्लेण्ड-देशे प्रधानमन्त्रिणो मोदिनो भव्यं स्वागतम् अभवत्
नवदिल्ली, 16मेमासः ,(हि.स.) प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे यूरोप्यदेशः नेदर्लेण्ड्-देशः आगतः। तस्य आगमनसमये भारतीयप्रवासिनः तस्य उत्साहपूर्वकं स्वागतम् अकुर्वन्। प्रधानमन्त्री शनिवासरे भव्य-स्वागतस्य कानिचन दृश्यानि व्यञ्जयत्। ह्यः नेद
प्रधानमंत्री नरेन्द्र मोदी नीदरलैंड्स में भारतीय प्रवासियों से मुलाकात करते हुए।


नीदरलैंट्स में भारतीय प्रवासियों के नृत्य की एक झलक।


नवदिल्ली, 16मेमासः ,(हि.स.) प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे यूरोप्यदेशः नेदर्लेण्ड्-देशः आगतः। तस्य आगमनसमये भारतीयप्रवासिनः तस्य उत्साहपूर्वकं स्वागतम् अकुर्वन्। प्रधानमन्त्री शनिवासरे भव्य-स्वागतस्य कानिचन दृश्यानि व्यञ्जयत्।

ह्यः नेदर्लेण्ड्-देशे तस्य आगमनसमये भारतीयसमुदायस्य हृदयस्पर्शी स्वागतम् अत्यन्तं विशिष्टम् आसीत् इति प्रधानमन्त्री मोदी एक्स-इत्यत्र उक्तवान्। भारतीयप्रवासिनां एषा आत्मीयता, उत्साहः, अनुरागः च अत्युत्कृष्टः अस्ति

प्रधानमन्त्री सामाजिक-माध्यम-मञ्चेषु स्वागतस्य कानिचन विशेषदृश्यानि छायाचित्राणि च व्यञ्जयत्। नेदर्लेण्ड्-देशे भारतीयसमुदायः प्रधानमन्त्रीं स्वागतीकर्तुं भव्यसांस्कृतिककार्यक्रमस्य आयोजनम् अकरोत्। अयं उत्सवः भारतस्य विविधतायाः समृद्धसांस्कृतिकपरम्परायाः च अद्वितीयं अवलोकनं प्रददात्।

स्वागतसमारोहे देशस्य विभिन्नेषु भागेषु भारतीय-प्रवासिनः पारम्परिक-नृत्यशैल्याः प्रदर्शनानि कृतवन्तः। एतेषु कथक्, ओडिस्सी, भरतनाट्यम्, कुचीपुडी, मोहिनियाट्टम् इत्यादीनां विविधनृत्यशैल्याः प्रदर्शनानि आसन्। अस्मिन् गरबा-नृत्यप्रदर्शनम् अपि आसीत्।

पूर्वं प्रधानमन्त्री मोदी एक्स इत्यत्र उक्तवान् यत् अहं एम्स्टर्डम्-नगरं प्राप्तवान् इति। नेदर्लेण्ड्-देशस्य यात्रा तस्मिन् समये अभवत् यदा भारत-यूरोपीय-सङ्घयोः मध्ये स्वतन्त्र-व्यापार-सन्धिः व्यापार-निवेश-सम्बन्धेषु पर्याप्तं गतिं प्रददात्। अनेन सेमिकण्डक्टर्स्, जलं, स्वच्छ-ऊर्जा इत्यादिषु क्षेत्रेषु सम्बन्धान् इतोऽपि सुदृढं कर्तुं अवसरः प्राप्यते। अहं प्रधानमन्त्रिणा रोब् जेट्टन् इत्यनेन सह वार्तालापं करिष्यामि, तथा च राजा विलेम्-अलेक्साण्डर्, राज्ञी म्याक्सिमा च मिलितुं शक्नोमि।

इयं यात्रा भारत-नेदरल्यांड्स्-देशयोः द्वैपाक्षिक-सम्बन्धान् सुदृढं कर्तुं तथा तत्र निवसतः भारतीयैः सह सम्बन्धं गाढं कर्तुं महत्त्वपूर्णं सोपानम् इति मन्यते।

प्रधानमन्त्री मोदी संयुक्त-अरब्-अमिरात् (यु. एई), नेदरल्यांड्स्, स्वीडन्, नार्वे, इटली इत्येतेषु पञ्चदेशेषु भ्रमणं कुर्वन् अस्ति। सः प्रथमं युनैटेड् अरब् ऎमिरेट्स्-देशं गतवान्। तदनन्तरं प्रधानमन्त्री मोदी नेदर्लेण्ड्-देशम् अगच्छत्। प्रधानमन्त्री नेदर्लेण्ड्-देशे 17मेमसीयं पर्यन्तं भविष्यति।

--------

Hindusthan Samachar / Dheeraj Maithani