Enter your Email Address to subscribe to our newsletters

गङ्गटोक-नगरम्, १६ मईमासः (हि.स.)। सिक्किम-राज्यस्य ५१तम-राज्य-स्थापना-दिवस-समारोहे केन्द्रीय-सञ्चार-तथा-पूर्वोत्तर-क्षेत्र-विकास-मन्त्री ज्योतिरादित्य-सिन्धिया सहभागी अभवत्। अस्मिन् कार्यक्रमे भारतस्य उपराष्ट्रपतिः सीपी-राधाकृष्णन्, सिक्किम-राज्यस्य राज्यपालः ओम्-प्रकाश-माथुरः तथा मुख्यमन्त्री प्रेम-सिंह-तमाङ्गः अपि उपस्थितौ आस्ताम्। समारोहस्य समये पूर्वोत्तर-क्षेत्र-विकास-मन्त्रालयेन समर्थितानां प्रायः २२३ कोटि-रूप्यकाणां मूल्ययुक्तानां २१ विकास-परियोजनानां लोकार्पणं शिलान्यासश्च कृतः। एतासां परियोजनानां उद्देश्यं सिक्किमे पूर्वोत्तर-क्षेत्रे च आधारभूत-संरचनायाः विकास-कार्याणां च सुदृढीकरणम् अस्ति।
आधिकारिक-वक्तव्यानुसारं केन्द्रीय-मन्त्री नेपाली-भाषया समारोहम् सम्बोधितवान्। अस्मिन् अवसरे तेन उक्तं यत् सिक्किमम् एतादृशं राज्यम् अस्ति यत्र विकासः, प्रकृतिः, संस्कृतिः, परिचयश्च सहैव अग्रे गच्छन्ति। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिन: नेतृत्वे सिक्किमम् अद्य सतत-विकासस्य, जैविक-कृषेः, पर्यटन-आधारित-अर्थव्यवस्थायाः तथा पर्यावरण-संरक्षणस्य राष्ट्रिय-उदाहरणरूपेण उदितम् अस्ति।
अस्मिन् समये एनईएसआईडीएस-मार्ग-योजनायाः अन्तर्गतं ४५ कोटि-रूप्यकेभ्यः अधिक-मूल्ययुक्तानां सम्पर्क-परियोजनानां लोकार्पणम् अपि कृतम्। एतासु एनएच-१० मार्गं आईबीपी-मार्गेण सह संयोजयन्तः सेतु-कार्याणि, पाक्योंग-जनपदे रोंगरोंग-नद्याः उपरि सम्पर्क-मार्गः तथा नाम्ची-जनपदे रंगपो-खोला-प्रदेशे संयोजन-परियोजनाः समाविष्टाः सन्ति।
एतेन सह गेजिंग-जनपदे १५.८ किलोमीटर-दीर्घस्य रिंबी-खोला-युक्सोम-मार्गस्य सुधार-तथा-डामरीकरण-कार्यस्य शिलान्यासः अपि कृतः। प्रायः २४.५२ कोटि-रूप्यक-व्यययुक्ता एषा परियोजना क्षेत्रीय-सम्पर्कं पर्यटनं च नूतन-गतिं प्रदास्यति।
कार्यक्रमस्य प्रमुखम् आकर्षणं ‘मिशन-सिक्किम-ऑर्गेनिक्स’ इत्यस्य शुभारम्भः आसीत्। ३६० कोटि-रूप्यकाणां अनुमानित-व्यययुक्ता एषा महत्त्वाकाङ्क्षिणी योजना सिक्किमं केवलं जैविक-उत्पादक-राज्यात् अग्रे नीत्वा वैश्विक-प्रीमियम-जैविक-अर्थव्यवस्थारूपेण स्थापयितुं कार्यं करिष्यति। केन्द्रीय-मन्त्री अवदत् यत् एमडोनर-मन्त्रालयम् अस्य अभियानस्य अन्तर्गतं ८५ कोटि-रूप्यकाणां योगदानं दास्यति, यस्य उपयोगः अधोसंरचनायै, एग्रीगेशन-व्यवस्थायै तथा कार्यक्रम-समन्वयाय भविष्यति।
तेन उक्तं यत् अस्य अभियानस्य माध्यमेन जैविक-उत्पादानां प्रमाणीकरण-व्यवस्था, प्रोसेसिंग्, ब्राण्डिंग्, तथा संस्थागत-मूल्य-श्रृङ्खला सुदृढी करिष्यन्ते, येन कृषकाणां आयवृद्धिः भविष्यति तथा फसलोत्तर-हानिः न्यूना भविष्यति। विशेषतया बृहद्-एला तथा आर्द्रक-सदृश-सस्यानां मूल्य-श्रृङ्खला-विकासे अपि बलं दास्यते।
सोनेक-योजनायाः अन्तर्गतं नामथाङ्ग-बाजार-जलापूर्ति-प्रणाल्याः विस्तारः, रिनॉक-राजकीय-डिग्री-महाविद्यालये बहुउद्देश्यीय-सभागार-निर्माणम्, वंश-औद्योगिक-पार्कस्य तथा इनोवेशन-प्रोडक्ट-कल्चरल-क्राफ्ट-केन्द्रस्य स्थापना, बर्तुक-राजकीय-डिग्री-महाविद्यालये शैक्षणिक-भवन-निर्माणम्, नाम्ची-स्थिते कमरङ्ग-राजकीय-डिग्री-महाविद्यालये विज्ञान-भवन-निर्माणम्, बर्तुक-हेलिपोर्टस्य उन्नयनम् तथा याङ्गाङ्गस्य अपर-धापर-प्रदेशे रज्जुमार्ग-परियोजनायै पर्यटन-अधोसंरचना-विकासः इत्यादीनां परियोजनानाम् अपि सूचना प्रदत्ता।
केन्द्रीय-मन्त्री ज्योतिरादित्य-सिन्धिया अवदत् यत् एताः सर्वाः परियोजनाः सम्पर्कः, शिक्षा, पर्यटनम्, कृषि, जलापूर्तिः तथा उद्योगः इत्यादिषु क्षेत्रेषु संतुलित-क्षेत्रीय-विकासस्य दीर्घकालिक-आर्थिक-प्रगतेः च दृढं आधारं निर्माति।
सिक्किमस्य विकासस्य विषये चर्चां कुर्वन् केन्द्रीय-मन्त्री अवदत् यत् भारत-सर्वकारस्य, सिक्किम-सर्वकारस्य तथा केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी-महोदयस्य सहयोगेन एनएच-१० मार्गस्य वैकल्पिक-मार्गे सक्रियतया कार्यं प्रचलति, येन राज्याय सर्वकालेषु सुरक्षित-अनिर्बाध-सम्पर्क-सुविधा प्रदातुं शक्येत।
राज्य-स्थापना-दिवसस्य शुभकामनाः प्रददन् केन्द्रीय-मन्त्री ज्योतिरादित्य-सिन्धिया अवदत् यत् सिक्किमम् आकाङ्क्षायाः अस्मितायाश्च अद्भुत-सन्तुलनस्य प्रतीकं वर्तते। तेन विश्वासः व्यक्तः यत् एमडोनर-मन्त्रालयेन सञ्चालिता प्रत्येक-परियोजना राज्यस्य जनानां प्रगतये, समृद्धये भविष्यस्य सशक्तीकरणाय च दृढ-संकल्पेन अग्रे गमिष्यति।
/ अंशु गुप्ता