केन्द्रीय-मन्त्री अनुप्रिया-पटेलः ‘विन्ध्य-प्रसादम्’ उपहार-पेटिकायाश्च शुभारम्भं कृतवती
मीरजापुर-नगरम्, १६ मईमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-तथा-परिवार-कल्याण-रसायन-उर्वरक-राज्यमन्त्री अनुप्रिया-पटेल-महोदया शनिवासरे राष्ट्रिय-ग्रामीण-आजीविका-अभियानेन (एनआरएलएम) सम्बद्धाभिः स्वयं-सहायता-समूहस्य महिलाभिः निर्मितस्य “विन्ध्य-प्रसादम्”
एनआरएलएम से जुड़ी स्वयं सहायता समूह की महिलाओं द्वारा तैयार विंध्य प्रसादम एवं विंध्य गिफ्ट बॉक्स देखतीं केंद्रीय राज्यमंत्री अनुप्रिया पटेल व जिलाधिकारी पवन कुमार गंगवार।


मीरजापुर-नगरम्, १६ मईमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-तथा-परिवार-कल्याण-रसायन-उर्वरक-राज्यमन्त्री अनुप्रिया-पटेल-महोदया शनिवासरे राष्ट्रिय-ग्रामीण-आजीविका-अभियानेन (एनआरएलएम) सम्बद्धाभिः स्वयं-सहायता-समूहस्य महिलाभिः निर्मितस्य “विन्ध्य-प्रसादम्” तथा “विन्ध्य-उपहार-पेटिका” इत्येतयोः शुभारम्भं कृतवती। कार्यक्रमे राज्य-पश्चाद्वर्ग-आयोगस्य उपाध्यक्षः सोहन-लाल-श्रीमाली, विधायकाः रिंकी-कोल:, जिलाधिकारी पवन-कुमार-गंगवारः, पुलिस-अधीक्षकः अपर्णा-रजत-कौशिकः, मुख्य-विकास-अधिकारी विशाल-कुमारः इत्यादयः बहवः अधिकारिणः उपस्थिताः आसन्।

केन्द्रीय-मन्त्री अवदत् यत् “विन्ध्य-प्रसादम्” पेटिका “वोकल्-फॉर्-लोकल्” तथा महिला-सशक्तीकरणस्य जीवन्तम् उदाहरणम् अस्ति। तया उक्तं यत् एनआरएलएम-समूहस्य महिलाभिः स्थानीय-उत्पादानां, पारम्परिक-व्यञ्जनानां तथा हस्तशिल्पस्य संयोजनेन एषा विशेषा उपहार-पेटिका निर्मिता, येन ग्रामीण-महिलाभ्यः आत्मनिर्भरता-प्राप्तेः अवसरः भविष्यति।

तया सूचितं यत् विन्ध्याचलं प्रति आगच्छद्भ्यः श्रद्धालुभ्यः समूहस्य महिलाभिः निर्मितं “विन्ध्य-प्रसादम्” उपलब्धं भविष्यति, यस्मिन् चुनरी-वस्त्रात् आरभ्य पूजा-सामग्री प्रसादश्च समाविष्टः भविष्यति। एतदर्थं विन्ध्य-कोरिडोर-प्रदेशे विशेष-स्थानम् अपि चिन्हितम् अस्ति।

जनपदाधिकारी पवन-कुमार-गंगवारः अवदत् यत् “विन्ध्य-प्रसादम्-पेटिकायाम्” चुनरी-वस्त्रम्, रुद्राक्ष-माला, अगरबत्ती, धूपबत्ती, दोना-पत्रम्, कदम्ब-बीजानि, शिवपुरस्य पेड़ा-मिष्टान्नम्, घृत-गुडादयः विविधाः धार्मिक-सामग्री समाविष्टाः सन्ति, यस्य मूल्यं द्विसहस्र-रूप्यकाणि निर्धारितम् अस्ति।

तथा “विन्ध्य-उपहार-पेटिकायाम्” सन्धितम्, मसालाः, सत्तू, पर्पट:, मोरिंगा-चूर्णम्, गृह-उपयोगी-सामग्री तथा स्थानीय-उत्पादाः समावेशिताः सन्ति। अस्य मूल्यं १२८२ रूप्यकाणि निर्धारितम् अस्ति। मन्त्रिणा अस्य प्रयत्नस्य कृते प्रशासनस्य स्वयं-सहायता-समूहस्य महिलानां च प्रशंसा कृता।

हिन्दुस्थान-समाचारः॥

/ Dheeraj Maithani