Enter your Email Address to subscribe to our newsletters

सिलिगुडी, 16मेमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् इत्येषः सिक्किम-राज्ये विविधविकासपरियोजनानां उद्घाटनार्थं शनिवासरे बाग्डोग्रा-नगरं गतवान्। नियतसमयानुगुणं सः हेलिकाप्टर्-द्वारा सिक्किम्-राज्यं प्रति उड्डीयमानः आसीत्, परन्तु प्रतिकूल-वायुगुणस्य कारणात् योजना परिवर्तिता।
ततः उपराष्ट्रपतिः बाग्डोग्रा-नगरात् मार्गेण सिक्किम्-नगरं प्रति प्रस्थितवान्।
बाग्डोग्रा-विमानस्थानके राज्यमन्त्री निशित् प्रामाणिकः तस्य स्वागतम् अकरोत्। भ्रमणकाले जनपद-प्रशासनस्य वरिष्ठ-अधिकारिणः, सिलिगुडी-नगरस्य आरक्षक-आयुक्तः च उपस्थिताः आसन्। प्रशासनस्य मूलानां अनुसारं उपराष्ट्रपतिः स्वयात्रायां सिक्किम्-राज्ये अनेकानां महत्त्वपूर्णानां विकासकार्याणां उद्घाटनम्, शिलान्यासं च करिष्यति। तस्य भ्रमणार्थं विस्तृतसुरक्षाव्यवस्था कृता अस्ति।
Hindusthan Samachar / Dheeraj Maithani