Enter your Email Address to subscribe to our newsletters

लखनऊ, 17मेमासः(हि.स.) 2026 तमे वर्षे अन्ताराष्ट्रिय-सङ्ग्रहालय-दिवसस्य अवसरे राजधानी-लखनऊ-नगरस्य राज्य-सङ्ग्रहालये कला-संस्कृति-परम्परा-सम्बद्धाः अनेकाः विशेष-कार्यक्रमाः आयोज्यन्ते। 19मे दिनांके आयोजिते अस्मिन् कार्यक्रमे पाश्चात्यशैल्याः शिल्पकलाशालायाः उद्घाटनम् भविष्यति। राज्यस्य पर्यटन-संस्कृति-मन्त्रिणः जयवीरसिंहः अस्मिन् कार्यक्रमे मुख्यातिथिः भविष्यति। अस्मिन् अवसरे प्रो. माण्डवी सिङ्घ्, प्रो. राजीव् नयन्, ख्याता कलाकारिणी सङ्गीता गुप्ता च उपस्थिताः भविष्यन्ति।
तस्मिन् एव काले 'आदियोगि शिवः अ जर्नी इन् कास्मिक् इण्डिगो' इति शीर्षकं विशिष्टं वस्त्रप्रदर्शनम् अपि उद्घाटयिष्यते। प्रदर्शनी राज्य-सङ्ग्रहालयस्य अस्थायी-चित्रशालायां 19 मेतः 19 जून 2026 पर्यन्तं सामान्यजनानाम् कृते उद्घाटिता भविष्यति। प्रदर्शनस्य माध्यमेन भगवतः शिवस्य आध्यात्मिककल्पना, भारतीयकला, वस्त्रपरम्परा च सृजनात्मकरूपेण प्रस्तूयन्ते। आयोजकाः मन्यन्ते यत् प्रदर्शनेन युवान् कलाप्रेमिकान् च भारतीयसांस्कृतिकपरम्परां नूतनदृष्टिकोणे अवगन्तुं अवसरः प्राप्स्यति इति।
अन्ताराष्ट्रिय-सङ्ग्रहालय-दिवसस्य स्मरणार्थं छात्राणां युवानां च कृते विविधाः स्पर्धाः अपि आयोजिताः सन्ति। अस्य अन्तर्गतं अन्तरविद्यालय-प्रश्नोत्तरी-प्रतियोगिता, अन्तरविद्यालय-निबन्ध-प्रतियोगिता, विश्वविद्यालय-स्तरीय-चित्रकला-प्रतियोगिता च भविष्यति।
एतेषां प्रतियोगितानां उद्देश्यं नव-पीढिं सङ्ग्रहालयैः, इतिहासैः, कलया, भारतीय-संस्कृतेः च सह योजयितुं, तेषु सृजनात्मकतायाः सांस्कृतिक-जागरूकतायाः च प्रोत्साहनं च भवति। कार्यक्रमे स्पर्धासु उत्कृष्टं प्रदर्शनं कुर्वतां प्रतिभागिभ्यः प्रमाणपत्रेषु पुरस्कारेषु च वितरणम् भविष्यति।
पर्यटन-संस्कृति-मन्त्रिणः जयवीर् सिङ्घ्-वर्यः अवदत् यत्, सङ्ग्रहालयाः अस्माकं सांस्कृतिकपरम्परायाः, इतिहासस्य, सभ्यतायाः च जीवन्तकेन्द्राणि सन्ति, ये नव-पीढिं तेषां मूलैः, भारतीय-परम्पराभिः च सम्बद्धुं महत्त्वपूर्णं कार्यं कुर्वन्ति इति
कला, इतिहासः, संस्कृतिः इत्येतैः सम्बद्धाः एतादृशाः कार्यक्रमाः न केवलं युवानां मध्ये सृजनात्मकतां, सांस्कृतिक-जागरूकताम् वर्धयन्ति अपितु तेभ्यः भारतीयपरम्परां नूतनदृष्टिकोणेन अवगन्तुं अवसरम् अपि प्रददाति इति सः अवोचत्।
पर्यटनमन्त्री सूचितवान् यत् राज्यसर्वकारः न केवलं प्रदर्शनस्थलरूपेण अपितु सांस्कृतिक-संवादस्य शिक्षणस्य च शक्तिशाली-मञ्चरूपेण सङ्ग्रहालयानां विकासाय निरन्तरं कार्यं कुर्वन् अस्ति इति।
--------
Hindusthan Samachar / Dheeraj Maithani