मन्त्रिणा अतुलबोरावर्येण कार्यभारः स्वीकृतः, 100-दिनेषु कार्ययोजनानां कार्यक्रमस्य आरम्भः कृतः
गुवाहाटी, 17मेमासः (हि.स.)। अतुल बोरा औपचारिकरूपेण पञ्चायत् तथा ग्रामीणाभिवृद्धिविभागस्य मन्त्रीरूपेण कार्यभारं स्वीकृतवान्। यदा सः विभागस्य कार्यभारं स्वीकृतवान्, तदा एव सः राज्यस्य विकासस्य गतिं वर्धयितुं 100-दिनेभ्यः कार्ययोजनां कार्यान्वयितुम्
Minister Atul Bora मंत्री अतुल बोरा


गुवाहाटी, 17मेमासः (हि.स.)। अतुल बोरा औपचारिकरूपेण पञ्चायत् तथा ग्रामीणाभिवृद्धिविभागस्य मन्त्रीरूपेण कार्यभारं स्वीकृतवान्। यदा सः विभागस्य कार्यभारं स्वीकृतवान्, तदा एव सः राज्यस्य विकासस्य गतिं वर्धयितुं 100-दिनेभ्यः कार्ययोजनां कार्यान्वयितुम् अघोषयत्।

कार्यभारं स्वीकृत्वा मन्त्रिणः गतरात्रौ विभागीय-अधिकारिभिः सह मेलनं कृत्वा विभिन्नेषु योजनानां परियोजनानां च समीक्षा कृता। सः ग्रामीणेषु क्षेत्रेषु प्रचलितेषु विकासयोजनाः प्रभावीरूपेण प्रवर्तयितुं, कालबद्धरूपेण निष्पादयितुं च विशेषम् अवधानं दत्तवान्।

अस्मिन् अवसरे अतुल बोरा अवदत् यत् राज्यस्य विकासाय उपलब्धानां निधिनां समुचितं पारदर्शकं च उपयोगं सुनिश्चितं भविष्यति इति। सः अवदत् यत् पञ्चायत् तथा ग्रामीणाभिवृद्धिविभागस्य माध्यमेन लोकहितयोजनाः त्वरिताः भविष्यन्ति इति।

मन्त्री असौ विभागीय-अधिकारिभ्यः उत्तमसमन्वयेन दक्षतया च कार्यं कर्तुं निर्देशं दत्तवान् तथा च 100-दिनेषु कार्यक्रमे सफलं कर्तुम् आह्वयत्।

--------

Hindusthan Samachar / Dheeraj Maithani