वरिष्ठः पत्रकारः ध्रुवः महन्तः पुनः मुख्यमन्त्रिणा प्रधान-पत्रिका-सचिवत्वेन नियुक्तः
गुवाहाटी, 17मेमासः (हि.स.)। वरिष्ठः पत्रकारः ध्रुव् महन्तः असम-राज्यस्य मुख्यमन्त्रिणा डा. हिमान्त-विश्वशर्मणा प्रधान-पत्रिका-सचिवत्वेन पुनः नियुक्तः अस्ति। अस्मिन् विषये शनिवासरे रात्रौ आधिकारिकघोषणा कृता। एतदतिरिच्य, नवजीत् पटगिरि इत्येषः मुख्य
Senior Journalist Dhruva Mahanta.


गुवाहाटी, 17मेमासः (हि.स.)। वरिष्ठः पत्रकारः ध्रुव् महन्तः असम-राज्यस्य मुख्यमन्त्रिणा डा. हिमान्त-विश्वशर्मणा प्रधान-पत्रिका-सचिवत्वेन पुनः नियुक्तः अस्ति। अस्मिन् विषये शनिवासरे रात्रौ आधिकारिकघोषणा कृता।

एतदतिरिच्य, नवजीत् पटगिरि इत्येषः मुख्यमन्त्री-वर्यस्य सम्प्रेषण-जनसम्पर्क-प्रोटोकाल्-विभागस्य विशेष-कर्तव्य-अधिकारिरूपेण पुनः नियुक्तः अस्ति।

राज्यसर्वकारस्य एते महत्त्वपूर्णाः प्रशासनिक-निर्णयाः, मुख्यमन्त्रिकार्यालयस्य माध्यम-समन्वय-व्यवस्थायाः, जनसम्पर्क-गतिविधीनां, सम्प्रेषण-व्यवस्थायाः च सुदृढीकरणार्थं महत्त्वपूर्णाः इति मन्यन्ते।

--------

Hindusthan Samachar / Dheeraj Maithani