पूर्व-मन्त्रिणः नारद-रायस्य आग्रहे जलशक्ति-मन्त्रिणः त्वरित-कार्यवाही
बलिया-जनपदः, १७ मईमासः (हि.स.)। उत्तरप्रदेशस्य बलिया-जनपदे गढाञ्चलस्य जीवन-रेखा इति कथ्यमानायाः मङ्गई-नद्याः सम्बद्ध-नालानां अवरोध-निवारणस्य प्रयत्न: आरब्ध: अस्ति। अनेन सहस्रशः एकड-परिमित-कृषियोग्य-भूमेः प्रतिवर्षं जलमग्न-स्थितेः सम्भावना न्यूनतमा
सिंचाई विभाग के अधिकारियों से बात करते पूर्व मंत्री नारद राय


बलिया-जनपदः, १७ मईमासः (हि.स.)। उत्तरप्रदेशस्य बलिया-जनपदे गढाञ्चलस्य जीवन-रेखा इति कथ्यमानायाः मङ्गई-नद्याः सम्बद्ध-नालानां अवरोध-निवारणस्य प्रयत्न: आरब्ध: अस्ति। अनेन सहस्रशः एकड-परिमित-कृषियोग्य-भूमेः प्रतिवर्षं जलमग्न-स्थितेः सम्भावना न्यूनतमा भविष्यति।

मङ्गई-नद्या सम्बद्धेषु नालिकासु सञ्चित-पङ्कस्य उत्खननार्थं तथा कतिपय-स्थलेषु पुलिका-निर्माणार्थं विगत-दिनेषु पूर्व-मन्त्री नारद-रायः लखनऊ-नगरे जलशक्ति-मन्त्रिणा स्वतन्त्रदेव-सिंहेन सह मिलितवान्। तेन जलशक्ति-मन्त्रिणः समीपे कृषकाणां अस्य विकराल-समस्यायाः समाधानार्थं निवेदनं कृतम्। ततः परं जलशक्ति-मन्त्रिणा दूरभाष-माध्यमेन सिञ्चन-विभागस्य अधिशासी-अभियन्त्रे त्वरित-समाधानार्थं निर्देशाः प्रदत्ताः।

तदनन्तरं बलिया-नगरम् आगत्य पूर्व-मन्त्री नारद-रायः सिञ्चन-विभागस्य कार्यालयं गत्वा अधिशासी-अभियन्तारं राकेश-कुमारं उक्तवान् यत् दशाधिक-ग्रामाणां कृषकाणां सहस्रशः एकड-क्षेत्रेषु सम्बद्धान् ता: नालिका:, या: मङ्गई-नद्यां पतन्ति, स्थलं गत्वा निरीक्षन्ताम्। अधिशासी-अभियन्ता सहायक-अभियन्त्रा राम-मिलन-गौडेन, अवर-अभियन्त्रा राजकुमार-चौरसिया तथा सिञ्चन-विभागस्य अभियन्तृ-दलेन सह निरीक्षणार्थं गतवान्।

अधिकारिभिः नरहीं-प्रदेशात् मङ्गई-नदी-पर्यन्तं गच्छन्त्याः प्रायः सार्ध-चतुर्-किलोमीटर-दीर्घायाः करौंटी-नालिकाया:, शहाबुद्दीनपुर-प्रदेशात् आरभ्यमाणस्य स र्ध-त्रि-किलोमीटर-दीर्घस्य फिरोजपुर-ड्रेनस्य, टुटुआरी-बघौना-प्रदेशात् मङ्गई-नदी-पर्यन्तं गच्छन्त्याः साडे-सप्त-किलोमीटर-दीर्घायाः नरहीं-नालिकाया:, टाडा-ब्रह्मबाबा-स्थानं प्रति गच्छन्त्याः नालिकाया: च स्वच्छता-पुलिका-निर्माणयोः विषये निरीक्षणं कृतम्।

अधिशासी-अभियन्त्रा उक्तं यत् जलशक्ति-मन्त्रिणः दूरभाष-निर्देशानुसारं नालिका-स्वच्छतार्थं निविदा-प्रक्रिया सम्पन्ना अस्ति तथा वर्षाकालात् पूर्वमेव स्वच्छता-कार्यं पूर्णं कारयिष्यते। करईल-क्षेत्रस्य जनानां अस्य विकराल-समस्यायाः समाधानस्य कृते नारद-रायः जलशक्ति-मन्त्रिणः प्रति कृतज्ञतां प्रकटितवान्।

नारद-रायः रविवासरे अवदत् यत् करईल-क्षेत्रस्य सहस्रशः कृषकाः स्व-क्षेत्राणां वर्षपर्यन्तं जलमग्न-स्थित्या पीडिताः आसन्। अधुना तेषां समस्या निवारिता भविष्यति। प्रदेशस्य योगी-सर्वकारः कृषक-हिताय निरन्तरं प्रयत्नशीलः अस्ति।

/ Dheeraj Maithani