Enter your Email Address to subscribe to our newsletters

रायपुर-नगरम्, १७ मईमासः (हि.स.)। छत्तीसगढ-राज्ये अग्रिय-राष्ट्रीय-जनगणना-२०२७ इत्यस्य कृते प्रशासनिक-प्रस्तुतयः युद्धस्तरे प्रचलन्ति। राज्यस्य सर्वेषु जनपदेषु नगर-निगमेषु च गृह-सूचीकरण-ब्लॉकानाम् (एचएलबी) गठनं सत्यापन-कार्यं च तीव्रतया प्रगच्छति।
सम्प्रति प्रकाशितानिं आधिकारिक-प्रगति-प्रतिवेदनानुसारं राज्ये अद्यावधि आहत्य ६०.७३ प्रतिशताधिकं कार्यं सफलतया सम्पन्नम्। अस्मिन् महाभियाने डिजिटल-प्रौद्योगिक्याः सम्यक्-समन्वयेन कुलं ४८,७४२ ब्लॉकेषु २९,६०२ ब्लॉकानां कार्यं सम्पन्नं जातम्।
राज्यस्य अस्याः प्रगतेः विषये मुख्यमन्त्री विष्णुदेव-सायः सन्तोषं व्यक्तवान् तथा गौरेला-पेण्ड्रा-मरवाही-जनपद-प्रशासनं प्रदेशस्य प्रगणकान् च अभिनन्दितवान्। सः अवदत्— “अस्माकं सर्वकारः ‘सबका साथ, सबका विकास’ इति सुशासन-सङ्कल्पेन सह अग्रे गच्छति। अग्रिम-जनगणना-२०२७ इत्यस्य एते विवरणानि भविष्ये छत्तीसगढस्य विकासस्य, जनकल्याणकारी-योजनानां, नीति-निर्धारणस्य च दृढ-आधारः भविष्यन्ति। डिजिटल-प्रौद्योगिकीनां उपयोगेन समय-सीमायां कार्य-सम्पादनं प्रशंसनीयम्। येषु महानगरेषु नगर-निगम-क्षेत्रेषु वा कार्यस्य गतिः मन्दास्ति, तेषां क्षेत्राणाम् अधिकारिणः स्थलीय-निरीक्षणं वर्धयन्तु तथा शीघ्रमेव अस्य राष्ट्रीय-महत्त्वस्य कार्यस्य गतिं वर्धयन्तु।”
राज्य-स्तरे जनपदानां प्रदर्शनं दृष्ट्वा आदिवासी-बहुलः गौरेला-पेण्ड्रा-मरवाही-जनपदः सूच्यां शीर्षस्थाने वर्तते। तेन स्वस्य सर्वेषां ५२८ गृह-सूचीकरण-तहसीलानां कार्यं शत-प्रतिशतं सम्पन्नं कृतम्। तदनन्तरं जशपुर-जनपदः (९९.८७ प्रतिशतं) मोहला-मानपुर-अम्बागढ-चौकी-जनपदः (९९.८४ प्रतिशतं) च पूर्णतायाः अत्यन्तं समीपे स्तः। एतदतिरिक्तं बेमेतरा-जनपदे (९७.८ प्रतिशतं) मुंगेली-जनपदे (९६.५२ प्रतिशतं) च कार्यं प्रायः समाप्तेः स्थितौ अस्ति।
एकतः ग्रामीण-दूरस्थ-जनपदाः उत्कृष्टं प्रदर्शनं कृतवन्तः, अपरतः राज्यस्य बृहन्नगरेषु नगर-निगम-क्षेत्रेषु कार्यस्य गतिः चिन्ताजनक-रूपेण मन्दा दृश्यते। रायगढ-नगर-निगमः सूच्यां अधःस्थाने वर्तते, यत्र केवलं ४.६५ प्रतिशतं कार्यं सम्पन्नम्। औद्योगिक-केन्द्रे भिलाई-नगरे केवलं ७.८४ प्रतिशतं, रिसाली-क्षेत्रे च ८.३३ प्रतिशतं कार्यमेव सम्पन्नम्। राजधानी रायपुर-नगरे आहत्य १,९६४ ब्लॉकेषु केवलं २०३ तहसीलानां कार्यं सम्पन्नं जातम्, यत् आहत्य लक्ष्यस्य केवलं १०.३४ प्रतिशतं अस्ति।
Hindusthan Samachar / Divya Ranjan