मुख्यमन्त्रिणा डॉ.यादवेन विश्व-दूरसञ्चार-दिवसे शुभकामनाः प्रदत्ताः
भोपाल-नगरम्, १७ मईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः प्रदेशवासिभ्यः विश्व-दूरसञ्चार-दिवसस्य शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री डॉ.यादवः नवाचार-आधारितायाः देशस्य समग्र-विकास-यात्रायां दूरसञ्चारस्य भूमिकां महत्त्वपूर्णाम् उक्तवान
मुख्यमंत्री डॉ. यादव ने विश्व दूरसंचार दिवस पर दी शुभकामनाएं


भोपाल-नगरम्, १७ मईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः प्रदेशवासिभ्यः विश्व-दूरसञ्चार-दिवसस्य शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री डॉ.यादवः नवाचार-आधारितायाः देशस्य समग्र-विकास-यात्रायां दूरसञ्चारस्य भूमिकां महत्त्वपूर्णाम् उक्तवान्।

मुख्यमन्त्री डॉ.यादवः रविवासरे सामाजिक-माध्यमे ‘एक्स’-माध्यमेन स्व-सन्देशे अवदत्— “विश्व-दूरसञ्चार-दिवसस्य हार्दिक्यः शुभकामनाः। सञ्चार-क्रान्त्या विविधैः माध्यमैः दूरीः एकत्रीकृत्य विश्वं परिवारवत् कृतम्, जीवनं च सुकरं जातम्। अस्मिन् अवसरे ये वैज्ञानिकाः सञ्चार-माध्यमानां विकासाय स्व-जीवनं समर्पितवन्तः, तान् प्रणमामि।”

ध्यातव्यम् अस्ति यत् विश्व-दूरसञ्चार-तथा-सूचना-समाज-दिवसः प्रतिवर्षं १७ मई-दिने आचर्यते। अस्य उद्देश्यं अन्तर्जाल-तथा-सञ्चार-प्रौद्योगिकीनां सामाजिक-आर्थिक-लाभानां विषये वैश्विक-जागरूकतां वर्धयितुम् अस्ति। अयं दिवसः अन्तर्राष्ट्रीय-दूरसञ्चार-सङ्घस्य (ITU) स्थापनां स्मारयति। ITU संयुक्त-राष्ट्रस्य डिजिटल-प्रौद्योगिकी-संस्था अस्ति, यस्य स्थापना १७ मई १८६५ तमे वर्षे पेरिस-नगरे प्रथम-अन्तर्राष्ट्रीय-टेलीग्राफ-सम्मेलनस्य हस्ताक्षरेण अभवत्। अयं दिवसः १९६९ तः आधिकारिकतया आचर्यते।

Hindusthan Samachar / Divya Ranjan