बिहारस्य मुख्यमन्त्री राजगृहस्य राजकीय-मलमास-मेलापकस्य शङ्खनादं कृतवान्
नालन्दा-जनपदः, १७ मईमासः (हि.स.)। बिहार-राज्यस्य नालन्दा-जनपदस्य पर्यटन-स्थले राजगृहे रविवासरे प्रातः नववादने वैदिक-मन्त्रोच्चारणेन सह राजकीय-मलमास-मेलापकस्य शङ्खनादः बिहारस्य मुख्यमन्त्रिणा सम्राट-चौधरिणा वस्त्ररज्जू-कर्तनेन कृतः। अस्मिन् अवसरे म
मेला का शंखनाद करते मुख्यमंत्री


नालन्दा-जनपदः, १७ मईमासः (हि.स.)। बिहार-राज्यस्य नालन्दा-जनपदस्य पर्यटन-स्थले राजगृहे रविवासरे प्रातः नववादने वैदिक-मन्त्रोच्चारणेन सह राजकीय-मलमास-मेलापकस्य शङ्खनादः बिहारस्य मुख्यमन्त्रिणा सम्राट-चौधरिणा वस्त्ररज्जू-कर्तनेन कृतः।

अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् सनातन-धर्मस्य त्रयस्त्रिंशत्-कोटि-देवताः एक-मास-पर्यन्तं राजगृहे प्रवासार्थम् आगच्छन्ति। मेलायाः विशेषता एषा वर्तते यत् अग्रिमं १५ जून-मास-पर्यन्तं प्रवर्तमानस्य अस्य मेलापकस्य अवधौ राजगृहात् अतिरिक्तं अन्यत्र कुत्रापि माङ्गलिकानि शुभ-कार्याणि च वर्जितानि भविष्यन्ति।

राजगृह-तीर्थ-रक्षार्थं पण्डा-समितेः सचिवः विकास-उपाध्यायः अवदत् यत् ब्रह्मकुण्ड-परिसरे ध्वजारोहण-कार्यं सन्त-शिरोमणिना परमहंस-चिदात्मन-महाराजेन सम्पन्नम्। अद्य प्रातःकालात् एव मन्त्रोच्चारणं तीर्थ-पूजन-कार्यं च आरब्धम्। मलमास-मेलायां श्रद्धया स्नानार्थम् अष्ट-लक्षाधिक-श्रद्धालूनां आगमनस्य सम्भावना व्यक्ता अस्ति।

अस्य महाजन-समूहस्य सुरक्षार्थं राजगृहं पुलिस-छावनीरूपेण परिवर्तितम्। यत्र सम्मर्द-प्रबन्धनार्थं ९५० दण्डाधिकाऱिणः, ५३० अधिकाः पुलिस-अधिकाऱिणः, १००० होमगार्ड-सैनिकाः अश्वारूढ-आरक्षक-दलं च नियुक्तम् अस्ति।

अस्मिन् वर्षे मेलापकं विशेषं कर्तुं सुदृढ-व्यवस्थाः कृताः सन्ति। श्रद्धालूनां निवासार्थं राज्य-अतिथिगृहे वितान-व्यवस्थायाः अतिरिक्तं १४ स्थानेषु आश्रय-स्थलानि निर्मितानि। तथा च ११ स्थानेषु जर्मन-हैङ्गर-व्यवस्था, त्रयः जलरोधक-पण्डालाः च निर्मिताः, यत्र श्रद्धालुभ्यः निःशुल्क-निवास-व्यवस्था प्रदत्ता अस्ति।

राजगृहस्य सर्वेषु चतुष्पथेषु तोरणद्वाराणि स्थापितानि। पीएचडी-विभागेन ३० स्थानेषु ३०० पान-जल-व्यवस्थाः स्थापिताः, येषां माध्यमेन पेय-गङ्गा-जलस्य आपूर्तिः भविष्यति। विभागेन २० नूतन-चापाकलाः स्थापिताः, ६० जीर्ण-चापाकलानां मरम्मतिः कृता च। १२५ स्टैण्ड-पोस्ट-निर्माणस्य योजना अस्ति। १५ पेयजल-प्रपा: आरक्षिताः सन्ति।

प्रतिदिनं प्रायः त्रि-लक्ष-श्रद्धालुभ्यः पेयजल-आपूर्तेः व्यवस्था कृता। पेयजलस्य गुणवत्तायाः नियमित-परीक्षणं पीएचडी-विभागेन क्रियते। विभागेन ७५० शौचालयानां निर्माणं सम्पन्नम्, यत्र ३५० पुरुषाणां ३५० महिलानां च कृते व्यवस्थाः सन्ति। अतिरिक्ततया ७५ मूत्रालयाः स्थापिताः। राजगृह-नगर-परिषदया २५० अस्थायी-शौचालयाः निर्मिताः।

तथा च १३ स्थायी-शौचालयानां मरम्मतिः कृता। १४ स्थानेषु कुलं २५ “दीदी-रसोई”-केन्द्राणि सञ्चालितानि भविष्यन्ति। अस्थायी-चिकित्सालयाः अष्टसु स्थानेषु स्थापिताः। १८ स्वास्थ्य-शिविराणि, १६ एम्बुलेन्स-वाहनानि, ४ चलत्-चिकित्सा-दलानि च नियुक्तानि। केन्द्रीय-नियन्त्रण-कक्षे २४x७ सेवायां ३२ पर्यवेक्षकाः २६० पारामेडिकल-कर्मचारिणः च उपलब्धाः भविष्यन्ति।

सम्पूर्णं मेला-क्षेत्रं त्रिषु स्वच्छता-क्षेत्रेषु विभक्तम्, त्रिषु पर्यायेषु स्वच्छता-व्यवस्था च सुनिश्चितीक्रियते। अस्य कृते ६१७ श्रमिकाः, ८७ पर्यवेक्षकाः, २०-२५ वाहनानि, ५७ वाहन-चालकाः च नियुक्ताः। समग्रतया १७०० मानवबलस्य व्यवस्था कृता। सोकपीट-स्वच्छतार्थं ९ सक्शन-यन्त्राणि अपि स्थापितानि।

मेलापकम् आगच्छन्तः श्रद्धालवः राज्य-सर्वकारस्य विविध-महत्त्वाकाङ्क्षी-योजनानां विषये आवश्यक-सूचनाम् अपि प्राप्तुं शक्नुवन्ति।

/ अंशु गुप्ता