Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ मे-मासः (हि.स.)। भारतीय-क्रिकेट-दलस्य पूर्व-प्रशिक्षकः रवि-शास्त्री मन्यते यत् युवा वैभव-सूर्यवंशी अन्ताराष्ट्रिय-क्रिकेट-क्रीडायै सज्जः अस्ति। तस्मै शीघ्रमेव भारतस्य टी-२०-दले अवसरः दातव्यः।
आई.सी.सी.पुरुष-अण्डर-१९-क्रिकेट-विश्वकप-२०२६ मध्ये भारतीय-अण्डर-१९-दलस्य विजयाय महत्त्वपूर्णां भूमिकां निर्वह्य सूर्यवंशी अधुना इण्डियन-प्रीमियर-लीग-स्पर्धायाः वर्तमान-सत्रे राजस्थान-रॉयल्स-दलस्य कृते क्रीडन् तीव्र-गत्या धावनाङ्कान् अर्जयति।
आई.सी.सी.-रिव्यू-कार्यक्रमे संवादसमये रवि-शास्त्री उक्तवान् यत् यदि कश्चित् युवा-क्रीडकः प्रोत्साहयितव्यः अथवा शीघ्रमेव दले समावेशयितव्यः अस्ति, तर्हि टी-२०-स्वरूपम् एव सर्वोत्तमः मञ्चः अस्ति तथा च एषः युवा-क्रीडकः कस्मिन्नपि दृष्ट्या न्यूनः नास्ति। एषः युवकः अधुना विश्व-क्रिकेटस्य अनेकासु दल-व्यवस्थासु सहजतया स्थानं प्राप्तुं शक्नोति। तस्य यौवन-उत्साहं पश्यतु, सः उत्साहः तस्य मुखमण्डलेऽपि स्पष्टतया दृश्यते।
शास्त्री विचारं दत्तवान् यत् जून-मासे भविष्यति आयरलैण्ड-देशस्य अग्रिम-भ्रमणं सूर्यवंशिनः दल-समावेशस्य कृते उचितः समयः भवितुम् अर्हति। एतेन सः भारतस्य कृते न्यूनतम-वयसि पदार्पणं कर्ता क्रीडकः भविष्यति।
वैभवस्य न्यून-वयसः विषये शास्त्री उक्तवान् यत् बहवः जनाः पृच्छेयुः यत् सः १५ वर्षीयः अस्ति, १६ वर्षीयः अस्ति अथवा १४ वर्षीयः। किन्तु मम तस्मिन् विषये कापि चिन्ता नास्ति। अहं केवलं एतत् पश्यामि यत् सः अधुना कथं फलप्रहारं करोति तथा च स्वस्य द्विगुण-वयस्कान् सर्वान् क्रीडकान् कथं सम्मुखिनः भवति।
वामहस्तीयः उद्घाटकः वैभव-सूर्यवंशी अस्मिन् सत्रे आईपीएल-क्रीडायां ११ पर्यायेषु २३६.५५ इति उत्कृष्ट-प्रहार-दरेण ४४० धावनाङ्कान् अर्जितवान्। अस्मिन् द्वे अर्धशतके एकं शतकं च समाविष्टम् अस्ति। अस्य प्रदर्शनस्य अनन्तरं वैभवः सम्प्रति काले प्रथमवारं इण्डिया-ए-दलेऽपि स्थानं प्राप्तवान्।
Hindusthan Samachar / Divya Ranjan