सर्वकारीय-भूमौ अतिक्रमणं न सह्यते : दिलीप-घोषः
खड्गपुर-नगरम्, १७ मईमासः (हि.स.)। पश्चिम-बङ्गाले सर्वकार-परिवर्तनानन्तरं अतिक्रमण-विरोधि-अभियानम् आरब्धम् अस्ति। अवैध-निर्माणानि ध्वंसितानि क्रियन्ते। अस्मिन् मध्ये राज्यस्य ग्रामोन्नयन-प्राणी-संरक्षण-मन्त्री दिलीप-घोषः अवदत् यत् सर्वकारीय-भूमौ कस्
দিলীপ ঘোষ


खड्गपुर-नगरम्, १७ मईमासः (हि.स.)। पश्चिम-बङ्गाले सर्वकार-परिवर्तनानन्तरं अतिक्रमण-विरोधि-अभियानम् आरब्धम् अस्ति। अवैध-निर्माणानि ध्वंसितानि क्रियन्ते। अस्मिन् मध्ये राज्यस्य ग्रामोन्नयन-प्राणी-संरक्षण-मन्त्री दिलीप-घोषः अवदत् यत् सर्वकारीय-भूमौ कस्यापि प्रकारस्य अतिक्रमणं न सह्यते।

रविवासरे प्रातः खड्गपुरे संवाददातॄन् सम्बोधयन् दिलीप-घोषः अवदत्— “वयं सर्वकारीय-भूमौ कस्यापि प्रकारस्य अतिक्रमणं न सहिष्यामः। यत्र यत्र अवैध-निर्माणानि भविष्यन्ति, तत्र तत्र बुलडोजर-यानानि प्रचालयिष्यन्ते। बङ्गाले सत्तां प्राप्तवता नूतन-सर्वकारेण प्रथम-दिनात् एव एषा प्रक्रिया आरब्धा। अहं सर्वान् अवैध-क्रियाकलापेषु संलग्न-जनान् प्रार्थये यत् ते विधेः सीमायाः अन्तर्गतं स्व-क्रियाकलापान् कुर्वन्तु। सर्वकारः तेषां पूर्ण-सहयोगं करिष्यति।”

Hindusthan Samachar / Divya Ranjan