Enter your Email Address to subscribe to our newsletters

रायपुर-नगरम्, १७ मईमासः (हि.स.)। मुख्यमन्त्रिणः विष्णुदेव-सायस्य संवेदनशील-नेतृत्वेन त्वरित-प्रशासनिक-कार्यशैल्या च परिणामस्वरूपं जशपुर-जनपदस्य ग्राम-पञ्चायत-सेन्दरीमुण्डा-इत्यस्य वार्ड-संख्या ७ बैशाखूपारा-इत्यस्य दीर्घकालिक-पेयजल-समस्याया: समाधानं प्राप्तवती।
हैंडपम्प-खननानन्तरम् अधुना ग्रामीणेभ्यः गृहसमीपे एव स्वच्छ-पेयजलं उपलब्धं जातम्, येन सम्पूर्णे क्षेत्रे हर्षस्य वातावरणं वर्तते।
बैशाखूपारा-निवासिनः दीर्घकालं यावत् पेयजलार्थं दूरस्थ-जलस्रोतसां प्रति आश्रिताः आसन्। विशेषतः महिला-बालक-वृद्धाः च ग्रीष्मकाले जल-आहरणाय महत्कष्टं अनुभवन्ति स्म।
समस्यायाः स्थायी-समाधानार्थं उमेश-यादवः, संतोष-देहरी च अन्ये ग्रामवासिनः मुख्यमन्त्री-कैम्प-कार्यालये आवेदनं कृत्वा हैंडपम्प-खननस्य निवेदनं कृतवन्तः। तेषां निवेदनं दृष्ट्वा मुख्यमन्त्रिणः निर्देशानुसारं सम्बन्धित-विभागेन शीघ्रमेव कार्यवाहीं कृत्वा बैशाखूपारे हैंडपम्प-खननं सम्पन्नम्।
हैंडपम्पात् जलप्रवाहं दृष्ट्वा ग्रामीणाणां मुखेषु आनन्दः प्रकटितः। अधुना वार्ड-संख्या ७ परिवाराः स्वच्छ-पेयजलार्थं दूरं गन्तुं न प्रवर्तन्ते, येन समयस्य श्रमस्य च उभययोः अवशेष: भवति।
ग्रामीणेभिः मुख्यमन्त्रिणः विष्णुदेव-सायं प्रति कृतज्ञता व्यक्ता, तथा कथितं यत् शासनस्य जनहितैषी-संवेदनशील-दृष्ट्या एव एषा दीर्घकालिका समस्या निवारिता। ते अवदन् यत् मुख्यमन्त्री-कैम्प-कार्यालयः जनसामान्यस्य समस्यानां त्वरित-समाधानस्य प्रभावी-माध्यमरूपेण प्रतिष्ठितः अस्ति।
Hindusthan Samachar / Divya Ranjan