Enter your Email Address to subscribe to our newsletters


स्टॉकहोम् (स्वीडन)/ द हेग् (नीदरलैण्ड), १७ मे-मासः (हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी यूरोप-पश्चिम-एशिया-प्रदेशयोः पञ्चदेशीय-यात्रायाः तृतीय-चरणे अद्य स्वीडन-देशम् आगमिष्यति। आधिकारिक-कार्यक्रमानुसारं सः स्वीडन-देशस्य गोथेनबर्ग-नगरे द्विदिनात्मकं प्रवासं करिष्यति। अस्याः स्वीडन-यात्रायाः समये प्रधानमन्त्री मोदी स्वीयेन समकक्षेण उल्फ-क्रिस्टर्सनेन सह द्विपक्षीय-वार्तां करिष्यति। अस्याः यात्रायाः मुख्य-केन्द्रबिन्दुः भारत-स्वीडन-द्विपक्षीय-सम्बन्धान् प्रौद्योगिकी-प्रेरित-आर्थिक-सहभागितारूपे परिवर्तयितुं, हरित-परिवर्तनं, डिजिटल-नवोन्मेषं तथा रक्षा-प्रौद्योगिकी-विषयेषु ध्यानं केन्द्रयितुं च अस्ति।
स्वीडन-देशस्य ‘स्वीडन हेराल्ड्’ इति समाचारपत्रस्य अनुसारं प्रधानमन्त्री उल्फ-क्रिस्टर्सन उक्तवान् यत् भारतीय-प्रधानमन्त्री नरेन्द्रमोदी १७ तथा १८ मे-मास-पर्यन्तं गोथेनबर्ग-नगरे भविष्यति। तेन उक्तं यत् विश्वे विद्यमानाम् परिस्थितिं दृष्ट्वा एषः यात्राकालः अत्यन्तं समुचितः अस्ति। स्वीडिश-प्रधानमन्त्री उक्तवान् यत् भारतीय-प्रधानमन्त्रिणा सह तस्य द्विपक्षीय-वार्ता अपि भविष्यति। अस्यां वार्तायाम् आर्थिक-वाणिज्य-विषयाः प्राथमिकतया चर्चायाः केन्द्रे भविष्यन्ति। स्वीडन-देशस्य सर्वकारः भारतं स्वीडिश-निर्माणीनां कृते अत्यन्तं महत्त्वपूर्णं विपणिम् मन्यते।
स्वीडन-प्रधानमन्त्री उक्तवान् यत् एतेषां सर्वेषां आधारः यूरोपीय-सङ्घस्य मुक्त-व्यापार-सन्धिः एव अस्ति। यूरोपीय-आयोगस्य अध्यक्षा उर्सुला वॉन डेर लेयेन अपि गोथेनबर्ग-नगरे नरेन्द्रमोदिना सह मिलिष्यति। २०१८ तमवर्षात् परं स्वीडन-देशस्य एषा मोदी-महोदयस्य प्रथमा यात्रा अस्ति। १९ मे-मासे प्रधानमन्त्री मोदी ओस्लो-नगरे भारत-नॉर्डिक-शिखर-सम्मेलनेऽपि सहभागं करिष्यति।अस्मिन् मध्ये प्रधानमन्त्री मोदी नीदरलैण्ड्-यात्रायाः स्मृतयः शब्द-चित्राणां माध्यमेन ‘एक्स’ इत्यत्र संरक्षितवान्। तेन लिखितम्— “भारतीय-प्रवासी-समुदायः भारत-नीदरलैण्ड्-सहभागितायाः जीवन्तः सेतुः अस्ति। सूरीनामी-हिन्दुस्तानी-समुदायस्य कृते ओ.सी.आइ.-पत्रस्य पात्रतां चतुर्थ-वंशतः षष्ठ-वंशपर्यन्तं विस्तारितुम् अस्माकं निर्णयस्य, नीदरलैण्ड-देशे निवसता प्रवासी-समुदायेन महता उत्साहेन स्वागतं कृतम्।”
द्वितीये पोस्ट्-मध्ये तेन लिखितम्— “प्रधानमन्त्रिणा रॉब् जेटेन सह मम वार्ता अत्यन्तं विस्तृता आसीत् तथा च तस्यां बहवः विषयाः चर्चिताः। तेषु विषयेषु रक्षा-सुरक्षा अपि आसीत्। अहं रक्षा-उद्योगस्य कृते शीघ्रमेव कार्ययोजनां निर्मातुं सम्भावनायाः विषये चर्चाम् अकरवम्। वयं अन्तरिक्ष-यात्रा, सामुद्रिक-प्रणाली तथा सामुद्रिक-सुरक्षा इत्यादिषु क्षेत्रेषु अपि सहकार्यं कर्तुं शक्नुमः।”
प्रधानमन्त्री मोदी लिखितवान्— “आर्थिक-सहकार्यं भारत-नीदरलैण्ड-मित्रतायाः प्रमुखः स्तम्भः अस्ति। भारत-यूरोपीय-सङ्घयोः मध्ये मुक्त-व्यापार-सन्धिः असीम-अवसरान् प्रददाति। फिन्टेक, महत्त्वपूर्ण-खनिजेषु, सेमीकण्डक्टर, हरित-हाइड्रोजन तथा कृत्रिम-बुद्धिमत्ता इत्यादिषु क्षेत्रेषु सहकार्यस्य अपाराः सम्भावनाः सन्ति। वयं सांस्कृतिक-सहकार्यस्य तथा शिक्षाक्षेत्रे सहकार्यवृद्धेः उपायेषु अपि चर्चाः कृतवन्तः।”
‘धन्यवादः, प्रधानमन्त्री रॉब जेटेन्!’
प्रधानमन्त्री मोदी लिखितवान्— “धन्यवादः प्रधानमन्त्री रॉब-जेटेन्। मम अत्यन्तं हर्षः अस्ति यत् अहं नीदरलैण्ड्-देशम् आगतः अस्मि, यत्र अस्माकं द्विपक्षीय-सहकार्यं अधिकं सुदृढं कर्तुं प्रयत्नः क्रियते। गत-दश-वर्षेषु भारत-नीदरलैण्ड्-साझेदारी अत्यन्तं प्रगतिं प्राप्तवती अस्ति तथा च अधुना समयः आगतः यत् वयं अस्याम् अधिकं योगदानं दद्याम, येन उभय-देशयोः जनाः तस्य लाभं प्राप्नुयुः। एते दृढाः महत्त्वपूर्णाश्च परिणामाः सन्ति, ये भारत-नीदरलैण्ड्-मित्रतायाः अभूतपूर्वं गतिं प्रदास्यन्ति। एते परिणामाः अनेक-क्षेत्राणि समाविशन्ति तथा च अस्माकं राष्ट्रयोः विकासं समृद्धिं च प्रवर्धयिष्यन्ति।”
Hindusthan Samachar / Divya Ranjan