Enter your Email Address to subscribe to our newsletters

नव-दिल्ली-नगरम्, १७ मईमासः (हि.स.)। विश्व-हिन्दू-परिषदः (विहिप) आन्ध्र-प्रदेशस्य दक्षिण-प्रान्तस्य अध्यक्षस्य नन्दीरेड्डी-सैरेड्डेः आकस्मिक-निधनेन सम्पूर्ण-विहिप-परिवारेण हिन्दू-सङ्घटनैः च शोकः व्यक्तीकृतः।
सैरेड्डेः निधनस्य विषये दुःखं प्रकटयन् विश्वहिन्दुपरिषद: अन्ताराष्ट्रिय-अध्यक्षः आलोक-कुमारः रविवासरे अवदत् यत् तस्य गमनं सम्पूर्ण-सङ्घटनस्य कृते अपूरणीया क्षतिः अस्ति। सः अवदत्— “कुरनूल-नगरं स्वकीय-प्रमुख-केन्द्ररूपेण स्वीकृत्य कार्यं कुर्वन् सैरेड्डी आन्ध्र-प्रदेश-तेलङ्गाना-राज्ययोः असंख्य-हिन्दुत्व-कार्यकर्तॄणां कृते प्रेरणा-स्रोतः आसीत्। सामाजिक-सेवायाः धर्म-रक्षणं च प्रति तस्य अटला प्रतिबद्धता सर्वदा अनुकरणीया भविष्यति।”
विहिप-संस्थया उक्तं यत् तस्य निधनं हिन्दू-सङ्घटनानां सम्पूर्ण-विहिप-परिवारस्य च कृते अपूरणीया क्षतिः अस्ति। वयं भगवन्तं प्रार्थयामः यत् दिवङ्गतात्मनः सद्गतिं ददातु तथा तस्य परिवाराय कार्यकर्तृभ्यश्च अस्य महतः दुःखस्य सहनार्थं शक्तिं साहसं च प्रददातु।
सङ्घटनस्य राष्ट्रीय-प्रवक्ता विनोद-बंसलेन प्रदत्त-सूचनानुसारं दिवङ्गतस्य नन्दीरेड्डेः अन्त्येष्टि-संस्कारः सोमवासरे प्रातः ९ वादने कुरनूल-नगरे भविष्यति। अन्त्येष्टि-संस्कारे सङ्गठनस्य अनेक-वरिष्ठ-नेतारः स्थानीय-कार्यकर्तारश्च सहभागिन: भविष्यन्ति इति सम्भावना अस्ति।
Hindusthan Samachar / Divya Ranjan