Enter your Email Address to subscribe to our newsletters


भोपालनगरम्, १७ मे-मासः (हि.स.)। मध्यप्रदेशस्य आलीराजपुर-जनपदस्य “नूरजहाँ-आम्रफलम्” स्वस्य विशाल-आकारेण, विशिष्ट-स्वादेन तथा उच्च-मूल्येन देशे विदेशेषु च विशेष-परिचयं प्राप्नोति। २ तः ५ किलोग्राम-पर्यन्तं भारयुक्तम् एतत् दुर्लभम् आम्रफलम् “मैङ्गो-राजा” इति कथ्यते तथा च कृषकाणां कृते लाभकरा कृषिः जातम्।
वस्तुतः भारतदेशः आम्रफलानां देशः इति कथ्यते, तथा च मध्यप्रदेशः तं नूतन-उन्नतिं प्रति नेतुं प्रमुख-राज्यरूपेण उदितः अस्ति। प्रदेशस्य जलवायुः, उर्वरा मृत्तिका तथा विविधाः भौगोलिक-स्थितयः आम्र-उत्पादनाय अत्यन्तम् अनुकूलाः मन्यन्ते। एतस्मात् कारणात् अत्र दशहरी, लंगड़ा, चौसा, केसर, आम्रपाली, अल्फांसो तथा तोतापरी इत्यादीनां प्रसिद्ध-प्रजातीभिः सह एका अनन्या प्रजातिः उत्पाद्यते, या केवलं देशे एव न, अपितु विदेशेष्वपि विशिष्ट-परिचयं प्राप्तवती। एषा विशेष-प्रजातिः “नूरजहाँ” आम्रफलम् अस्ति। एतत् “मैङ्गो-राजा” इति अपि कथ्यते।
जनसम्पर्क-अधिकारी अनिल-वशिष्ठः रविवासरे उक्तवान् यत् मध्यप्रदेशस्य जनजाति-बहुल-आलीराजपुर-जनपदस्य कट्ठीवाड़ा-प्रदेशे उत्पाद्यमानं नूरजहाँ-आम्रफलम् स्वस्य विशाल-आकारेण, अद्वितीय-स्वादेन तथा आकर्षक-रूपेण प्रसिद्धम् अस्ति। एतत् विश्वस्य बृहत्तमेषु आम्रफलेषु गणितम् अस्ति। सामान्यतया एकस्य नूरजहाँ-आम्रफलस्य भारः २ तः ५ किलोग्राम-पर्यन्तं भवति। अस्य आकारः एतादृशः भवति यत् एकमेव आम्रफलम् सम्पूर्ण-कुटुम्बाय पर्याप्तम् मन्यते। अस्य वर्णः, सुगन्धः तथा माधुर्यं जनान् प्रथम-दृष्ट्यैव आकर्षयन्ति। विपण्यां अस्य याचना विशेषतः महानगरेषु विदेशेषु च अधिकः अस्ति। एकस्य आम्रफलस्य मूल्यं १५०० तः ३००० रूप्यक-पर्यन्तं भवति।
तेन उक्तं यत् “नूरजहाँ” आम्रफलम् केवलं स्वस्य आकारस्य कारणेन एव विशेषं नास्ति, अपितु स्वीय-दुर्लभतायाः कारणेनापि महत्त्वपूर्णम् अस्ति। अस्य वृक्षेषु सीमित-संख्यायां फलानि भवन्ति, अतः अस्य मूल्यं सामान्य-आम्रफलेभ्यः अनेकगुणम् अधिकं भवति। अनेकवारं एकमेव फलम् सहस्र-रूप्यकेषु विक्रीयते। एतस्मात् कारणात् एतत् आम्रफलम् कृषकाणां कृते लाभकर-सस्य-रूपेण उदितम् अस्ति। कट्ठीवाड़ा-प्रदेशस्य वातावरणं तथा जलवायुः अस्याः प्रजात्याः कृते अत्यन्तम् उपयुक्ते स्तः, येन अत्र उत्पादितानि फलानि विशेष-गुणयुक्तानि भवन्ति।
मन्यते यत् नूरजहाँ-आम्रफलस्य एषा प्रजातिः बहुवर्षपूर्वम् अफगान-प्रदेशात् भारतम् आगता तथा च अनन्तरं पञ्चम-षष्ठ-दशके मध्यप्रदेशस्य मालवा-प्रदेशे आदिवासी-अञ्चले झाबुआ-प्रदेशे च विकसितवती। आलीराजपुर-जनपदस्य जूना-कट्ठीवाड़ा-ग्रामस्थितस्य शिव-बावड़ी-आम्र-उद्यानस्य कृषकः भरतराजसिंह-जादवः वदति यत् तस्य पिता स्वर्गीयः रणवीरसिंह-जादवः प्रायः ५५ तः ६० वर्षपूर्वं गुजरातस्य बनमाह-प्रदेशात् नूरजहाँ-आम्रफलस्य रोपम् आनयत्। तेन स्वक्षेत्रे तत् रोपं स्थापितं तथा च बहुवर्षीय-परिश्रमेण संरक्षितम्। तत् रोपमेव अनन्तरं सम्पूर्ण-प्रदेशस्य परिचयः अभवत्। जादवस्य अनुसारं तस्य पित्रा ग्राफ्टिङ्ग-प्रविधेः माध्यमेन विशेषः रोपः निर्मितः, यस्य वर्तमान-आयुः प्रायः २० तः २५ वर्षाणि अस्ति। अस्मात् अतिरिक्तं स्वयं भरतराजसिंह-जादवेन निर्मिताः ११ ग्राफ्टेड्-रोपाः अद्य ३ तः ५ वर्ष-वयस्काः भूत्वा विकसिताः भवन्ति।
अद्य एषा मध्यप्रदेशस्य विशेष-परिचयः अभवत्। कट्ठीवाड़ा-प्रदेशे नूरजहाँ-आम्रफलस्य ख्यातिः बहुवर्ष-पुरातनी अस्ति। अस्याः विशिष्टतायाः दृष्ट्या १९९९ तथा २०१० तमे वर्षे एतत् राष्ट्रीय-स्तरे सम्मानितम् अभवत्। एते पुरस्काराः न केवलं कृषकाणां उत्साहं वर्धितवन्तः, अपितु आलीराजपुर-जनपदस्य राष्ट्रीय-परिचयम् अपि स्थापितवन्तः। शनैः शनैः एतत् आम्रफलम् मध्यप्रदेशस्य उद्यानिकी-परिचयस्य महत्त्वपूर्णं प्रतीकं जातम्।
उल्लेखनीयम् अस्ति यत् नूरजहाँ-आम्रफलस्य इतिहासः मालवा-प्रदेशस्य तथा पश्चिम-भारतस्य सांस्कृतिक-परम्परया सह अपि सम्बद्धः मन्यते। कथ्यते यत् मुगल-कालस्य समये विशाल-आकारयुक्तानि विशिष्ट-स्वादयुक्तानि च आम्रफलानि राजकीय-उद्यानेषु विशेष-महत्त्वं प्राप्नुवन्ति स्म। तस्याः परम्परायाः माध्यमेन एषा प्रजातिः कालान्तरे गुजरातं तथा झाबुआ-आलीराजपुर-अञ्चलं प्राप्तवती। आदिवासी-बहुलस्य अस्य प्रदेशस्य जलवायुः, मृत्तिका तथा तापमानं नूरजहाँ-प्रजातेः कृते अनुकूलं सिद्धम्, येन एषा प्रजातिः अत्र उत्तमरूपेण विकसितवती। झाबुआ-आलीराजपुरयोः सीमावर्ती-प्रदेशेषु अस्य संरक्षणं कृषकैः वंशात् वंशं क्रियमाणम् अस्ति।
जनसम्पर्क-अधिकारी उक्तवान् यत् विदेशेष्वपि नूरजहाँ-आम्रफलस्य विशेषा याचना दृश्यते। विशेषतः संयुक्त-अरब-अमीरात्, सऊदी-अरब, कतर तथा कुवैत इत्यादिषु खाड़ी-देशेषु भारतीय-उत्कृष्ट-आम्रफलानां उत्तमा याचना अस्ति। तत्र विशाल-आकारयुक्तानि आकर्षक-रूपयुक्तानि च फलानि विशेषरूपेण रोचन्ते। अस्य अतिरिक्तं संयुक्त-राज्य-अमेरिका, कनाडा तथा यूनाइटेड्-किङ्ग्डम-देशेषु निवसतां भारतीय-समुदायेष्वपि भारतीय-आम्रफलानि अत्यन्तं लोकप्रियाणि सन्ति। दक्षिण-पूर्व-एशियायाः सिंगापुर तथा मलेशिया-देशयोः अपि अस्य विशेषः परिचयः भवति।
यद्यपि नूरजहाँ-आम्रफलस्य उत्पादनं सीमित-मात्रायाम् एव भवति, अतः अस्य निर्यातः बृहद्-स्तरे न भवति, तथापि अस्य विशिष्टता तथा दुर्लभता अन्ताराष्ट्रिय-विपण्यां “लक्ज़री-मैङ्गो” इति परिचयं प्रददाति। विदेश-विपण्यां एतत् आम्रफलम् आकर्षणस्य केन्द्रं भवति।
मध्यप्रदेश-सर्वकारेण तथा उद्यानिकी-विभागेन कृषकेभ्यः आधुनिक-प्रविधयः, उन्नत-रोपाः, ड्रिप्-सिञ्चन-व्यवस्था तथा फल-प्रसंस्करणस्य कृते निरन्तरं प्रोत्साहनं दीयते। एतेन प्रदेशे आम्र-उत्पादनं वर्धते तथा कृषकाणां आयः अपि वर्धते। अद्य मध्यप्रदेशस्य आम्रफलम् केवलं स्वादस्य प्रतीकं नास्ति, अपितु कृषक-समृद्धेः, कृषि-नवोन्मेषस्य तथा प्रदेशस्य वैश्विक-परिचयस्य माध्यमम् अपि जातम्।
Hindusthan Samachar / Divya Ranjan