Enter your Email Address to subscribe to our newsletters

लखनऊ, 17मेमासः, (हि.स.) स्वदेशी-व्यापार-जुटान इत्यस्य नाम अधुना स्वदेशी-व्यापार-मञ्चः इति पुनर्नामकरणं भविष्यति। रविवासरे अखिलभारतीयसभायां अयं निर्णयः कृतः। अस्मिन् कार्यक्रमे स्वदेशी-ट्रेडर्स्-फ़ोरम इत्यस्य 20 तः अधिकाः राज्यानां वणिजः उपस्थिताः आसन्। सभायां निर्णयः कृतः यत् प्रत्येकस्मिन् राज्ये राष्ट्रिय-व्यापारि-कल्याण-मण्डलस्य निर्माणं भविष्यति तथा च मण्डल-स्तरे व्यापारि-कल्याण-समितिरूपेण तस्य विकासः भविष्यति इति।
स्वदेशी-व्यापार-मञ्चस्य संयोजकः बालकृष्ण-भार्तिया इत्येषः एकस्मिन् सभायां उक्तवान्। सः सूचितवान् यत् प्रत्येकं वणिजं निर्यातकं कर्तुं विशेषप्रशिक्षणशिबिराणि आयोज्यन्ते, एतैः शिबिरैः वणिजः इतोऽपि विकसिताः भविष्यन्ति। वणिजस्य कृते न्याय्यं वातावरणम् कल्पयितुं ई-वाणिज्य-नीतौ संशोधनं भविष्यति। सर्वैः व्यापारिभिः सर्वसम्मत्या संकल्पः कृतः यत् प्रधानमन्त्रिणः स्वावलंबनस्य आत्मनिर्भरभारतस्य निर्माणार्थं डीज़ल्-इन्धनस्य, पेट्रोल्-इन्धनस्य च उपयोगः न्यूनीकर्तव्यम् इति।
नागपुरतः व्यापार-मञ्चस्य संयोजकः बालकृष्ण-भरतिया, लखनौतः सह-संयोजकः सन्दीप् बन्साल् च निर्वाचितौ अभवताम्। जिला-स्तरे स्वदेशी-व्यापार-मञ्चस्य कोर्-कमिटि इत्यस्य निर्माणं करणीयम्, तदर्थं अपि निरन्तर-प्रवास-कार्यक्रमः भविष्यति।
महाराष्ट्रतः शङ्कर-ठक्करः, छत्तीसगढतः अजय-भासीनः, सुनील-मिश्रा, विशाखपट्टणं, आन्ध्रप्रदेशतः दर्पु-प्रसाद-रेड्डी-जुनागढ्, गुजराततः गोपाल-मीना, हरियाणातः अमित्-बन्साल्, दिल्लीतः देवेन्द्र-अग्रवाल्, काशीतः विपिन-गुप्ता, मथुरातः सञ्जय्-गर्गः, सुलतानपुरतः अमर-बहादुरः, शाहजहानपुरतः नरेन्द्र-शुक्ल, लख्नौतः प्रदीप-अग्रवाल्, सुरेश-चाब्लानी, राजीव-बन्सालः-आकाशगौतमः, अनुजगौतमः, शुभमौर्यः, सनतगुप्ता, सञ्जयनिधिअग्रवालः , गोरक्षपुरतः सौरभ-सिंहः, प्रवीण-सिंहः-स्वदेशी-जागरण-मञ्चः पूर्व-उत्तरप्रदेशस्य संयोजकः अनुपम-श्रीवास्तवः , अवध्-क्षेत्रस्य प्रभारी हमित-सिंहः-भाग्यनगर-मनोहर-अग्रवालः इत्येतेषु विभिन्नेषु राज्येषु उपस्थिताः प्रमुखाः प्रतिनिधयः अस्मिन् सभायाम् उपस्थिताः।
--------
Hindusthan Samachar / Dheeraj Maithani