Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, १७ मईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-जनपदे स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य संस्कृत-विद्या-विभागः पुनरेकवारं स्वस्य उत्कृष्ट-शैक्षणिक-परम्परायाः संस्कारमयी-शिक्षायाश्च परिचयं प्रदर्शयन् गौरवपूर्णाम् उपलब्धिं प्राप्तवान्। विभागस्य द्वयोः प्रतिभाशालिनोः विद्यार्थिनोः श्यामशङ्कर-तिवारी तथा आनन्द-द्विवेदी इत्येतयोः भारतीय-सेनायां जूनियर-कमीशंड-ऑफिसर (जे.सी.ओ.)-पदे चयनम् अभवत्।
विद्यार्थिनोः अनया सफलतया विश्वविद्यालय-परिवारे हर्षस्य गौरवस्य च वातावरणं व्याप्तम्। छात्रयोः सेनायां चयनानन्तरं विभागाध्यक्षः डॉ.रविशङ्कर-पाण्डेयः विभागस्य आचार्याश्च उभयोः अभिनन्दनं कृतवन्तः। अस्मिन् अवसरे आचार्यैः छात्रयोः सफलतां संस्कृत-शिक्षायाः व्यापक-उपयोगितायाः राष्ट्र-निर्माणे सक्रिय-भूमिकायाश्च सशक्तम् उदाहरणं कथितम्।
विशेषरूपेण छात्रस्य आनन्द-द्विवेदीन: उपलब्धयः विद्यार्थिनां कृते प्रेरणा-स्रोतत्वेन मन्यन्ते। सः प्रारम्भात् एव विभागस्य अनुशासितः मेधावी सक्रियश्च विद्यार्थी आसीत्। आचार्य-पाठ्यक्रमे सर्वोच्च-अङ्क-प्राप्त्यर्थं तस्मै प्रदेशस्य राज्यपालिका आनन्दीबेन-पटेल-महोदया “सम्पूर्णानन्द-संस्कृत-विश्वविद्यालय-स्वर्ण-पदक”-सम्मानेन सम्मानिता। तथा च तेन षट्-वारं यूजीसी-नेट-परीक्षा उत्तीर्णा कृत्वा स्वस्य असाधारण-शैक्षणिक-क्षमतायाः परिचयः प्रदर्शितः। विभागस्य शैक्षणिक-सांस्कृतिक-कार्यक्रमेषु तस्य सक्रिय-सहभागिता सर्वदा उल्लेखनीया आसीत्।
अस्मिन् अवसरे कुलपतिः प्रो.बिहारीलाल-शर्मा चयनित-विद्यार्थिभ्यः शुभकामनाः प्रदाय अवदत् यत् विश्वविद्यालयस्य विद्यार्थिभिः एतादृशेभ्यः कर्मठेभ्यः अनुशासितेभ्यः छात्रेभ्यः प्रेरणा ग्राह्या। तेन उक्तं यत् संस्कृत-शिक्षा केवलं परम्परा-ज्ञानयोः सीमिता नास्ति, अपितु सा राष्ट्र-सेवा-नेतृत्व-अनुशासन-व्यक्तित्व-निर्माणस्य भावनाम् अपि सुदृढां करोति।
विभागाध्यक्षः डॉ.रविशङ्कर-पाण्डेयः अवदत् यत् विद्यार्थिनोः एषा सफलता संस्कृत-अध्ययनस्य व्यापक-आयामान् रेखाङ्कयति तथा च एतत् सिद्धं करोति यत् संस्कृतस्य विद्यार्थी प्रत्येकस्मिन् क्षेत्रे स्व-प्रतिभायाः क्षमतायाश्च उत्कृष्टं प्रदर्शनं कर्तुं शक्नोति। तेन आशा व्यक्तीकृता यत् एषा उपलब्धिः विभागस्य अन्य-विद्यार्थिनः अपि परिश्रमाय समर्पणाय राष्ट्र-सेवायै च प्रेरयिष्यति।
Hindusthan Samachar / Divya Ranjan