Enter your Email Address to subscribe to our newsletters

गोरखपुरम्, 17 मईमासः (हि.स.)।
गोरखनाथ-मन्दिर-प्रवासस्य समये रविवासरस्य प्रातःकाले जनता-दर्शनस्य माध्यमेन जनसेवां कृत्वा सहैव मुख्यमंत्री योगी-आदित्यनाथः मन्दिरस्य गोशालायां गत्वा गोसेवायामपि निरतः अभवत्। तेन गोवंशः स्नेहेन स्पृष्टः तथा तस्मै गुडः खादितः। ग्रीष्म-ऋतुम् दृष्ट्वा गोशालायाः कार्यकर्तृभ्यः गोवंशस्य समुचित-पालनस्य निर्देशाः प्रदत्ताः।
गोरखनाथ-मन्दिर-प्रवासे रविवासरस्य प्रातःकाले मुख्यमंत्री-योगिनः दिनचर्या पारम्परिकी आसीत्। तेन गोरखनाथ-मन्दिरे शिवावतारस्य महायोगिनः गुरु-गोरखनाथस्य दर्शन-पूजनं कृतम् तथा स्वस्य गुरोः ब्रह्मलीन-महन्त-अवेद्यनाथस्य समाधि-स्थले गत्वा शिरसा प्रणम्य आशीर्वादः गृहीतः। ततः अनन्तरं मन्दिर-परिसरस्य भ्रमणं कुर्वन् सः गोशालां प्राप्तवान् तथा तत्र गोवंशाय गुडं खादयित्वा गोसेवां कृतवान्।
Hindusthan Samachar / Dheeraj Maithani