Enter your Email Address to subscribe to our newsletters

देहरादून-नगरम्, १७ मईमासः (हि.स.)। स्वर्गीय-हरबंस-कपूरस्य स्मृत्यर्थम् आयोजितायाः ‘पर्यावरण-सङ्कल्प-द्विचक्रिका-यात्रा’-कार्यक्रमस्य रविवासरे कैबिनेट-मन्त्रिणा गणेश-जोशिना केन्द्रीय-विद्यालय-ओएनजीसी-प्रांगणात् ध्वज-प्रदर्शनेन शुभारम्भः कृतः। अस्मिन् अवसरे मन्त्री गणेश-जोशी अवदत् यत् पर्यावरण-संरक्षणं वर्तमान-समयस्य महत्तमा आवश्यकता अस्ति।
तेन उक्तं यत् द्विचक्रिका-चालनं यथा स्वास्थ्यस्य कृते लाभकरं भवति, तथैव पर्यावरण-संरक्षणस्य दिशि अपि प्रभावी पदक्षेपः अस्ति। सः अवदत् यत् एतादृशाः आयोजनाः समाजे पर्यावरणं प्रति जागरूकतां वर्धयन्ति तथा यूनां स्वस्थ-जीवन-शैलीम् स्वीकर्तुं प्रेरयन्ति। एष: प्रयत्न: प्रधानमन्त्रिणः ईन्धन-संरक्षणस्य पर्यावरण-संरक्षणस्य च सङ्कल्पं अग्रे नेतुं महत्त्वपूर्णं योगदानम् इति अपि तेन उक्तम्।कैबिनेट-मन्त्रिणा स्वर्गीय-हरबंस-कपूराय श्रद्धाञ्जलिः अर्पिता। सः अवदत् यत् हरबंस-कपूरः केवलं तस्य राजनैतिक-गुरुः नासीत्, अपितु मार्गदर्शकः प्रेरणा-स्रोतश्च आसीत्। राजनीतेः मूल्यानि जनसेवायाः भावना च तेन कपूर-महोदयात् एव शिक्षिता। तस्य सरल-जीवनम् उच्च-विचाराश्च सर्वेषां कृते प्रेरणादायकाः सन्ति।
कार्यक्रमस्य समापने मन्त्री-गणेश-जोशिना द्विचक्रिका-यात्रा-विजेतृभ्यः पदकानि धारयित्वा सम्मानं कृतं तथा आयोजकेभ्यः सफल-आयोजनार्थं शुभकामनाः प्रदत्ताः।
स्वर्गीय-हरबंस-कपूर-मेमोरियल-ट्रस्ट-संस्थया आयोजितायां अस्यां रैल्यां बहुसंख्यया यूनः, विद्यार्थीजनाः, स्थानीय-नागरिकाश्च उत्साहपूर्वकं सहभागीभूताः। यात्रा केवी-ओएनजीसी-बैरियर-स्थलात् कोलागढ-मार्गेण आरभ्य होटल-सेफ्रन-लीफ-पर्यन्तं निष्कासिता। अस्मिन् अवसरे कैण्ट-विधायिका सविता-कपूर:, पार्षदा नन्दनी-शर्मा, ओपी-कुलश्रेष्ठेन सह अनेके गणमान्य-जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan