Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, १७ मईमासः (हि.स.)। पश्चिम-बङ्गाल-राज्य-सर्वकारेण राज्यान्तर्गतानां सप्त-महत्त्वपूर्ण-राष्ट्रीय-राजमार्ग-खण्डानां राष्ट्रीय-राजमार्ग-प्राधिकरणाय (NHAI) तथा राष्ट्रीय-राजमार्ग-एवं-अवसंरचना-विकास-निगम-संस्थाये (NHIDCL) समर्पणाय सैद्धान्तिकम् अनुमोदनं प्रदत्तम्। अनेन दीर्घकालतः स्थगितानां मार्ग-विकास-परियोजनानां अग्रे गमनस्य मार्गः प्रशस्तः जातः।
मुख्य-सचिव-कार्यालयेन शनिवासरे रात्रौ निर्गत-प्रेस-विज्ञप्त्यां उक्तं यत् एतेषु मार्गेषु विकास-कार्यं औपचारिक-हस्तान्तरण-अभावात् अवरुद्धम् आसीत्। अधुना अनुमोदनानन्तरं केन्द्रीय-संस्थाः विलम्बं विना परियोजनानां कार्यं प्रारप्स्यन्ति।
राष्ट्रीय-राजमार्ग-प्राधिकरणाय समर्पितेषु प्रमुखेषु मार्गेषु राष्ट्रीय-राजमार्गः ३१२ इत्यस्य ३२९.६ किलोमीटर-दीर्घः खण्डः अन्तर्भवति, यः जङ्गीपुर-उमरपुर-कृष्णनगर-बनगाँव-बशीरहाट-मार्गेण घोजाडांगा-स्थितां भारत-बाङ्गलादेश-सीमां यावत् गच्छति। तदतिरिक्तं बिहार-पश्चिम-बङ्गाल-सीमातः मालदा-जनपदस्य गाजोल-पर्यन्तं राष्ट्रीय-राजमार्गः ३१ तथा फरक्का-पर्यन्तं राष्ट्रीय-राजमार्गः ३३ इत्यस्य भागः अपि प्राधिकरणाय समर्पितः।
तथा च चत्वारः अन्ये महत्त्वपूर्णाः मार्गाः राष्ट्रीय-राजमार्ग-एवं-अवसंरचना-विकास-निगम-लिमिटेड-संस्थायै दत्ताः सन्ति। एतेषु सेवोक-आर्मी-कैण्टोन्मेण्टतः कोरोनेशन-ब्रिज-पर्यन्तं कालिम्पोङ्ग-मार्गेण सिक्किम-सीमां यावत् गच्छन् राष्ट्रीय-राजमार्गः १० अन्तर्भवति। अपि च हासिमारा-जयगाँव-भारत-भूटान-सीमा-मार्गः, बारादिघी-मैनागुड़ी-चङ्गरबन्धा-मार्गेण बाङ्गलादेश-सीमां यावत् गच्छन् मार्गः, तथा सिलीगुड़ी-कुर्सियाङ-दार्जिलिङ-नगराणि संयोजयन् पर्वतीय-मार्गः अपि निगमस्य अधीनः भविष्यति।
राज्य-सर्वकारस्य अनुसारं एतेषां परियोजनानां पूर्णतया उत्तर-बङ्गालस्य, दुआर्स-क्षेत्रस्य, बिहार-पश्चिम-बङ्गाल-सीमा-क्षेत्रस्य तथा भूटान-बाङ्गलादेश-देशयोः सह सम्पर्क-व्यवस्था सुदृढा भविष्यति। अपि च मालदा-मुर्शिदाबाद-मार्गेण बिहार-संलग्न-परिवहन-जालं अधिकं सुगमं सशक्तं च भविष्यति।
सरकारी-वक्तव्ये उक्तं यत् अस्य निर्णयस्य पश्चात् सर्वेषु सप्त-खण्डेषु विकास-कार्यं तीव्रगत्या प्रगमिष्यति तथा राज्ये राष्ट्रीय-स्तरीय-मार्ग-परियोजनाः नूतनां गतिं प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan