मुख्यमन्त्रिणा विश्व-उच्च-रक्तचाप-दिवसे स्वस्थ-जीवनशैल्याः स्वीकरणाय आह्वानं कृतम्
भुवनेश्वर-नगरम्, १७ मईमासः (हि.स.)। विश्व-उच्च-रक्तचाप-दिवसस्य अवसरे ओडिशा-राज्यस्य मुख्यमन्त्री मोहन-चरण-माझी जनान् प्रति हृदय-स्वास्थ्य-विषये जागरूकतां धारयितुं तथा स्वस्थ-जीवनशैल्याः स्वीकरणाय आह्वानं कृतवान्। मुख्यमन्त्रिणा उक्तं यत् नियमित-स्
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वर-नगरम्, १७ मईमासः (हि.स.)। विश्व-उच्च-रक्तचाप-दिवसस्य अवसरे ओडिशा-राज्यस्य मुख्यमन्त्री मोहन-चरण-माझी जनान् प्रति हृदय-स्वास्थ्य-विषये जागरूकतां धारयितुं तथा स्वस्थ-जीवनशैल्याः स्वीकरणाय आह्वानं कृतवान्।

मुख्यमन्त्रिणा उक्तं यत् नियमित-स्वास्थ्य-परीक्षणं, सन्तुलित-आहारः, शारीरिक-क्रियाकलापः तथा तनाव-नियन्त्रणम् इत्यादयः उपायाः उच्च-रक्तचापस्य निवारणे महतीं भूमिकां वहन्ति। तेन प्रतिपादितं यत् उत्तम-स्वास्थ्यार्थं जागरूकता तथा समये सावधानता अत्यावश्यकौ स्तः।

सः सर्वान् नागरिकान् प्रति आह्वानं कृतवान् यत् ते मिलित्वा स्वस्थ-जागरूक-सशक्त-समाज-निर्माणे योगदानं कुर्वन्तु।

Hindusthan Samachar / Divya Ranjan