Enter your Email Address to subscribe to our newsletters

भुवनेश्वर-नगरम्, १७ मईमासः (हि.स.)। विश्व-दूरसञ्चार-तथा-सूचना-समाज-दिवसस्य अवसरः ओडिशा-राज्यस्य मुख्यमन्त्री मोहन-चरण-माझी जनान् प्रति शुभकामनाः प्रदत्तवान्।
मुख्यमन्त्रिणा उक्तं यत् संयोजन-शक्तिः (कनेक्टिविटी) समाजस्य समुदायानां च जीवनेषु सकारात्मक-परिवर्तनं जनयति। तेन प्रतिपादितं यत् डिजिटल-प्रौद्योगिकी तथा सूचना-सेवाः जनान् सशक्तान् कुर्वन्ति एव न केवलं, अपितु विकासस्य नूतनान् अवसरान् अपि प्रददति।
मुख्यमन्त्री अवदत् यत् ओडिशा-सर्वकारः सर्वेभ्यः नागरिकेभ्यः समावेशी-डिजिटल-संयोजित-भविष्य-निर्माणे दृढप्रतिबद्धः अस्ति। अस्मिन् अवसरे राज्ये डिजिटल-प्रवेशस्य तथा तकनीकी-सशक्तिकरणस्य अधिक-सुदृढीकरणाय संकल्पः अपि पुनः व्यक्तः कृतः।
Hindusthan Samachar / Divya Ranjan