हिसारः - शिक्षा कस्यापि समाजस्य सर्वाधिकं महत्-बलम् अस्ति - भव्य-बिश्नोई
हिसारः, १८ मे-मासः (हि.स.)। भारतीय-जनता-पक्षस्य युवा-नेता पूर्व-विधायकः भव्य-बिश्नोई उक्तवान् यत् शिक्षा कस्यापि समाजस्य सर्वाधिकं महत्त्वपूर्णं बलम् अस्ति। बालकेभ्यः उत्तमं वातावरणं आधुनिक-सुविधाश्च प्रदातव्याः, येन ते समुचितरूपेण अग्रे गन्तुं शक्
सुंडावास स्कूल में विद्यार्थियों के साथ भव्य बिश्नोई।


हिसारः, १८ मे-मासः (हि.स.)। भारतीय-जनता-पक्षस्य युवा-नेता पूर्व-विधायकः भव्य-बिश्नोई उक्तवान् यत् शिक्षा कस्यापि समाजस्य सर्वाधिकं महत्त्वपूर्णं बलम् अस्ति। बालकेभ्यः उत्तमं वातावरणं आधुनिक-सुविधाश्च प्रदातव्याः, येन ते समुचितरूपेण अग्रे गन्तुं शक्नुवन्ति इति तेन प्रतिपादितम्।

सोमवासरे भव्य-बिश्नोई आदमपुर-क्षेत्रस्य सुंडावास-ग्रामं सहितं विविध-ग्रामान् ढाणीनां च भ्रमणं कृत्वा जनैः सह संवादं कृतवान् तथा सामाजिक-विकास-कार्येषु सहभागित्वं प्रदर्शितवान्। अस्मिन् अवसरे तेन सुंडावास-ग्रामस्य राजकीय-वरिष्ठ-माध्यमिक-विद्यालये त्रयाणां नूतन-कक्षाणाम् उद्घाटनं कृतम्। तेन उक्तं यत् एतेन विद्यार्थिनां कृते अध्ययनाय उत्तमाः सुविधाः लभ्यन्ते, शिक्षण-व्यवस्था च अधिका सुदृढा भविष्यति।

तेन विद्यालय-प्रशासनाय ग्रामवासिभ्यश्च शुभकामनाः प्रदत्ताः तथा क्षेत्रे विकास-कार्याणां गति: निरन्तरं प्रवर्तिष्यते इति आश्वासनं दत्तम्।

भ्रमण-काले सः आदमपुर-हलके विभिन्नेषु ग्रामेषु ढाणिषु च गत्वा जनानां सुख-दुःखयोः सहभागित्वं कृतवान् तथा सामाजिक-जलपान-कार्यक्रमेषु अपि भागं गृहीतवान्। ग्रामीणैः तस्य हार्दिकं स्वागतं कृतम्, क्षेत्रीय-विषयेषु विस्तृत-चर्चा च अभवत्। भव्य-बिश्नोई ग्रामीणानां समस्याः शृण्वन् तेषां समाधानाय सर्वथा प्रयत्नं करिष्यामि इति आश्वासनं दत्तवान्।

तेन उक्तं यत् आदमपुर-जनानां स्नेहः, विश्वासः, निजत्वं च तस्य सर्वाधिकं बलम् अस्ति, यत् तस्मै निरन्तरं सेवा-कार्याय नवीनां प्रेरणां ददाति। सः सर्वदा जनानां मध्ये स्थित्वा तेषां आवश्यकतानां भावनानां च अवबोधनं कर्तुं प्रयतते इति अवदत्।

अन्ते तेन प्रतिपादितं यत् आदमपुर-क्षेत्रस्य सर्वेषां ग्रामाणां समविकासः तस्य प्रमुखा प्राथमिकता अस्ति। मार्ग-निर्माणं, शिक्षा, सिंचनम्, क्रीडा तथा अन्य-मूलभूत-सुविधानां सुदृढीकरणाय निरन्तरं प्रयासः क्रियते, येन जनानां जीवन-स्तरः उन्नतः भवेत्। जनानां सहयोगेन आशीर्वादेन च एषा विकास-यात्रा निरन्तरं अग्रे प्रवर्तिष्यते इति तेन उक्तम्।

Hindusthan Samachar / Divya Ranjan