Enter your Email Address to subscribe to our newsletters

वॉशिंगटनम्, 18 मईमासः (हि.स.)।अमेरिकीसेंट्रलकमाण्डद्वारा कथितं यत् ईरानीबन्दरगाहस्थलेषु प्रवर्तितानां सामुद्रिकप्रतिबन्धानां निगराण्याश्च कालावधौ अधुना यावत् बहुसंख्यकानां व्यापारिकजहाजानां मार्गाः परिवर्तिताः सन्ति। सेंटकॉम-अनुसारं फारसखाडी-प्रदेशे ८४ वाणिज्यिकजलयानानि स्वनिर्धारितदिशं परिवर्तितवन्ति।
अमेरिकीसैन्याधिकारिणां मतानुसारं केषाञ्चित् पौतानां संचालनस्य उपरि अपि कार्यवाही कृता, येन तानि ईरानीबन्दरगाहस्थलानि प्रति न गच्छेयुः। प्रतिवेदनानुसारं चत्वारि जहाजानि परिचालनस्तरे निरुद्धानि अथवा निष्क्रियाणि कृतानि, यद्यपि अस्मिन् विषये विस्तृता सूचना सार्वजनिकरूपेण न प्रदत्ता।
उच्यते यत् अमेरिकादेशेन अप्रैल-मासात् आरभ्य ईरानस्य सामुद्रिकव्यापारस्य ऊर्जानिर्यातस्य च उपरि दबाववृद्धेः नीत्याः अन्तर्गतं ईरानीबन्दरगाहसम्बद्धक्रियाकलापानां कठोरनिगराणी आरब्धा। अस्य उद्देश्यं ईरानस्य तैल-गैस-निर्यातयोः प्रभावं कर्तुम् इति कथ्यते।
तथापि एतेषां दावानां विषये ईरानदेशस्य पक्षतः तत्कालं काचित् आधिकारिकप्रतिक्रिया न समुपस्था। प्रदेशे वर्धमानतनावस्य मध्ये सामुद्रिकमार्गाणां सुरक्षां व्यापारिकक्रियाकलापानां च विषये अन्ताराष्ट्रियस्तरे अपि चिन्ता विद्यमाना अस्ति।
-----------------------
Hindusthan Samachar / Dheeraj Maithani