लोक-सेवा-भवनं प्रत्यागच्छत् मुख्यमन्त्री, जनसेवां च सर्वोच्चं दायित्वम् इति उक्तवान्
गुवाहाटीनगरम्, १८ मे-मास: (हि.स.)। असम-प्रदेशस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा सोमवासरे लोक-सेवा-भवन-स्थिते स्वकीय-कार्यालयं प्रत्यागत्य जनसेवां प्रति स्वसमर्पणं पुनः प्रतिपादितवान्। तेन उक्तं यत् एतत् कार्यालयं तस्य कृते “जनसेवा-मन्दिरम्” इव अ
Assam chief minister Dr Himanta Biswa Sarma in Lok Seva Bhawan on Tuesday.


गुवाहाटीनगरम्, १८ मे-मास: (हि.स.)। असम-प्रदेशस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा सोमवासरे लोक-सेवा-भवन-स्थिते स्वकीय-कार्यालयं प्रत्यागत्य जनसेवां प्रति स्वसमर्पणं पुनः प्रतिपादितवान्। तेन उक्तं यत् एतत् कार्यालयं तस्य कृते “जनसेवा-मन्दिरम्” इव अस्ति, यत्र पुनः आगत्य सः आत्मानं धन्यं मन्यते।

मुख्यमन्त्री अवदत् यत् पूर्व-कार्यकालवत् आगामी-पञ्चवर्षेषु अपि लोक-सेवा-भवनस्य एषः कार्यालयः २४x७x३६५ रूपेण निरन्तरं जनसेवायां संलग्नः भविष्यति। तेन राज्यवासिभ्यः आश्वासनं दत्तं यत् सर्वकारः सर्वदा जनानां समस्यानां समाधानाय तथा जनहित-कार्येषु पूर्णतया प्रतिबद्धः अस्ति।

डॉ.हिमन्त-बिस्व-सरमा इत्यनेन प्रतिपादितं यत् जनसेवा एव तस्य सर्वकारस्य सर्वोच्चा प्राथमिकता अस्ति, तथा अनया भावनया प्रशासनं अधिकं सक्रियं उत्तरदायित्वयुक्तं च कर्तुं प्रयत्नः क्रियते।

Hindusthan Samachar / Divya Ranjan