Enter your Email Address to subscribe to our newsletters


सुलतानपुरम्, 18 मईमासः (हि.स.)।उत्तरप्रदेशस्य सुलतानपुरजनपदे भाजपया मिशन-२०२७ विधानसभानिर्वाचनस्य सिद्धतासम्बन्धेन संगठनात्मकक्रियाकलापाः तीव्रीकृताः। पक्षेण जनपदस्य २१५६ बूथेषु तथा ३७२ शक्तिकेन्द्रेषु सक्रियस्थितिं स्थापयितुं प्रयासः आरब्धः। अस्य सम्बन्धे भाजपाजिलाकार्यालये जिलाध्यक्षस्य सुशीलत्रिपाठिनोऽध्यक्षतायां नवनियुक्तमण्डलप्रभारिणां, मण्डलाध्यक्षानां, महामन्त्रिणां तथा उपाध्यक्षानां संयुक्तबैठक आयोजिताऽभवत्।
उपवेशने जिलाध्यक्षः सुशीलत्रिपाठी उक्तवान् यत् पक्षस्य लक्ष्यं प्रत्येकं बूथं सुदृढं विजययोग्यं च कर्तुम् अस्ति। अस्य कृते प्रत्येकस्मिन् बूथे ११ सदस्यीयबूथसमितेः सह द्वयोः वरिष्ठकार्यकर्त्रोः अतिरिक्तदायित्वं निर्धारितम् अस्ति। तेन उक्तं यत् मतदातृसूच्याः आधारेण प्रमुखमतदातॄणां, प्रभावशालिपरिवाराणां, योजनालाभार्थिनां तथा विभिन्नसमाजानां जनानां सूची निर्मास्यते। शीघ्रमेव प्रत्येकस्मिन् विधानसभाक्षेत्रे बूथसम्मेलनानि आयोज्यन्ते।
जिलामहामन्त्री संदीप सिंहः कार्यकर्तृभ्यः बूथस्तरपर्यन्तं सक्रियतां धारयितुम् आह्वानं कृतवान्। पक्षस्य मीडियाप्रमुखः विजय रघुवंशी उक्तवान् यत् आगामि उत्तरप्रदेशनिर्वाचनस्य दृष्ट्या प्रत्येकस्मिन् प्राथमिकसक्रियकार्यकर्तॄणां सूची निर्माय तानपि सक्रियस्थितौ आनयिष्यन्ति। तेन उक्तं यत् प्रतिमासस्य प्रथमसप्ताहे मण्डलस्तरे, तृतीयरविवासरे शक्तिकेन्द्रेषु तथा अन्तिमरविवासरे ‘मन की बात’ कार्यक्रमानन्तरं बूथसमितेः उपवेशनस्य आयोजनस्य निर्देशाः दत्ताः। बैठकानां कार्यवाही पञ्जिकायां लेखनीया तथा सरलऐप इत्यत्र ऑनलाइनउपस्थिति अनिवार्या कृता अस्ति।
उपवेशने विजय त्रिपाठी, डॉ प्रीति प्रकाशः, आशीष सिंह रानूः, अयोध्या प्रसाद वर्मा, चन्दन नारायन सिंहः, रेखा निषादः, दिनेश चौरसिया, मनोज श्रीवास्तवः, राजेश सिंहः, पूजा कसौधनः, अरूण जायसवालः, मनोज मौर्यः, मण्डलाध्यक्षाः राजेन्द्र वर्मा, रामजतन यादवः, राम प्रकाश वर्मा, संतोष सिंहः, सूर्य नारायन पाण्डेयः, प्रदीप शर्मा, सोहनलाल निषाद, डॉ विनय प्रजापतिः, रामजीत पालो, विशाल जायसवालो, डॉ राममूर्ति वर्मा, सुभाष वर्मा, दान बहादुर तिवारी सहिताः अनेके पदाधिकारिणः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani