Enter your Email Address to subscribe to our newsletters

पटना, 18 मईमासः (हि.स.)।मुख्यमन्त्री सम्राट चौधरी बिहारअग्निशमनसेवायाः सुदृढीकरणार्थं राज्यस्य अग्निशामालयेषु क्रीतान् ८० नवीनान् अत्याधुनिकान् अग्निशमनवाहनान् हरितध्वजं प्रदर्श्य लोकार्पितवान्। अस्मिन् अवसरे ऐतिहासिके गांधी मैदान आयोजिते कार्यक्रमे मुख्यमन्त्री आर्टिफिशियलइण्टेलिजेन्स (ए०आई०) आधारितस्य आधुनिकअग्निशमननियन्त्रणकक्षस्य दूरसञ्चारमाध्यमेन उद्घाटनमपि कृतवान्।
बिहार अग्निशमन सेवा द्वारा स्थापितायाः प्रदर्शनीयाः मुख्यमन्त्री अवलोकनं कृतवान्। अवलोकनकाले अधिकारिभिः मुख्यमन्त्रिणे अत्याधुनिकतन्त्रज्ञानसमन्वितानां अग्निशामकयन्त्राणां उपकरणानां च — यथा न्यूमेटिकएरलिफ्टिङ्गबैग्, सिंगलएक्टिङ्गकॉम्पैक्टहाइड्रोलिकडोरओपनर, सेल्फकन्टेण्डब्रीदिङ्गएपरेटस्, हाइड्रोलिकडिवॉटरिङ्गपम्प, कूलिङ्गवेस्ट्, हाईप्रेशरपोर्टेबलपम्प्, पावरशोरिङ्गसिस्टम, रिमोटएरियालाइटिङ्ग् ६५००० ल्यूमेन्स्, मल्टीगैसडिटेक्टरबैटरी, बैटरीसञ्चालितमिनीकटर्, स्मोकएग्जॉस्टर् इत्यादीनां विषये विस्तृता सूचना प्रदत्ता।
कार्यक्रमं सम्बोधयन् मुख्यमन्त्री उक्तवान् यत् यूयं सर्वे अग्निशमनसेवया सम्बद्धाः जवानाः वीरयोद्धारः सन्ति, यतः यूयं सर्वे आपदाकाले पूर्णतत्परतया अन्येषां जीवनरक्षणस्य कार्यं कुर्वन्ति, येन आपदा विपदां न प्राप्नुयात्। यूयं सर्वे प्रदेशे वीरयोद्धारूपेण ज्ञायध्वे। अग्निकाण्डेन परिवेष्टितस्य प्रत्येकस्य व्यक्तेः जीवनरक्षणमेव भवतां मूलोद्देश्यः अस्ति। आपदासूचना प्राप्तमात्रे यूयं सर्वे पूर्णमुस्तैद्या रक्षणकार्ये प्रवर्तध्वे।
तेन उक्तं यत् पूर्वमुख्यमन्त्री नीतीश कुमार न्यायेण सह सर्वेषु क्षेत्रेषु विकासकार्याणि कृतवान्, तदेव अग्रे नेतुं कार्यं क्रियते। अद्य अस्य कार्यक्रमस्य माध्यमेन ८० नवीनाः अग्निशमनवाहनाः लोकार्प्यन्ते, ये सम्पूर्णप्रदेशे विशेषतः अग्निकाण्डस्थितौ रक्षणकार्ये महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति। बिहारअग्निशमनसेवया वर्तमानकाले ८००० अधिकाः प्रशिक्षिताः जाम्बवज्जवानाः सम्बद्धाः सन्ति, येषां मुख्यलक्ष्यम् अग्निकाण्डेन पीडितानां जनानां सर्वथा सुरक्षा कर्तुम् अस्ति। बिहारअग्निशमनसेवया सम्बद्धाः जवानाः अग्निकाण्डरक्षणाय सर्वप्रकारेण सम्यक् प्रशिक्षिताः सन्ति। अस्य कृते अहं बिहारअग्निशमनसेवायाः महानिदेशकाय धन्यवादं ददामि। वर्तमानकाले बिहारअग्निशमनसेवायाः क्षमता ८००० अस्ति।
मुख्यमन्त्री उक्तवान् यत् देशस्य जनसंख्यायां बिहारस्य दशमांशः अस्ति। अत्र प्रायः १४ कोटिजनसंख्या वर्तते। बिहारम् आपदाप्रभावितक्षेत्रम् अस्ति, यत्र अग्निकाण्डः, बाढा, भूकम्पः इत्यादयः आपदाः निरन्तरं भवन्ति। एतादृश्यां स्थितौ बिहारअग्निशमनसेवायाः जवानाः पूर्णतत्परतया स्वदायित्वानि निर्वहन्ति। अत्र जवानाः स्वप्रदर्शनेन स्वकार्यकुशलता, दक्षता तथा क्षमता प्रदर्शितवन्तः, येषु अस्माकं भगिन्यः अपि सम्मिलिताः सन्ति। तेन उक्तं यत् बिहारअग्निशमनसेवायाः जवानाः प्रदेशवासिनां पूर्णसुरक्षायै स्वमहत्त्वपूर्णं योगदानं निरन्तरं ददतु। बिहारे स्वास्थ्यं, शिक्षा, मार्गाः, विद्युत् इत्यादीनां मूलभूतसुविधानां निरन्तरं विस्तारः क्रियते। सहैव सम्पूर्णबिहारे बहुसंख्यकउद्योगस्थापनदिशि शीघ्रतया कार्यं प्रवर्तते। बिहारअग्निशमनसेवा एतत् ध्यानस्थं कृत्वा स्वसिद्धतां सुनिश्चितां करोतु।
मुख्यमन्त्री उक्तवान् यत् केन्द्रीयगृहमन्त्री अमित शाह बिहारे किशनगंज स्थिते केन्द्रीयऔद्योगिकसुरक्षाबलस्य (सीआईएसएफ) प्रशिक्षणकेन्द्रस्य स्थापनस्य निर्णयं कृतवान्। अहं तस्मै आग्रहं करिष्यामि यत् गया इत्यत्र औद्योगिककॉरिडोरः निर्मीयते। तत्रापि सीआईएसएफस्य प्रशिक्षणकेन्द्रस्थापनाय पहल क्रियताम्। बिहारः विकसितो भवति, तमधिकसमृद्धं कर्तुं शीघ्रतया कार्यं क्रियते, येन जनाः आर्थिकदृष्ट्या अधिकसम्पन्नाः सुखिनश्च भवेयुः। बिहारात् बहिः निवसन्तः जनाः अपि मम आग्रहं शृण्वन्तु यत् ते पुनः बिहारं प्रत्यागत्य अत्र उद्योगधन्धाः स्थापयित्वा अस्य समृद्धौ स्वमहत्त्वपूर्णं योगदानं ददतु, एषा अस्माकं जन्मभूमिः अस्ति। बिहारे विशालस्तरे निवेशं कर्तुम् इच्छन्तः उद्योगपतयः निरन्तरं आगच्छन्ति। अद्य मम मुख्यमन्त्रीपदे एकमासः त्रयः दिवसाश्च अभवन्। नवीनसरकारस्य गठनस्य एकवर्षपूर्णतायां अस्माकं प्रयासः अस्ति यत् २० नवम्बर २०२६ पर्यन्तं बिहारे ५ लक्षकोटिरूप्यकाणां निवेशः सम्भवेत्।
मुख्यमन्त्री उक्तवान् यत् एआई युगं वर्तमानम् अस्ति, तत् ध्यानस्थं कृत्वा बिहारअग्निशमनसेवायामपि अस्य उपयोगस्य आरम्भः कृतः। प्रधानमन्त्रिणः नरेंद्र मोदी भारतं विकसितं कर्तुं सर्वप्रकारेण प्रयासरतः अस्ति। पूर्वमुख्यमन्त्री नीतीशकुमारः न्यायेण सह विकासकार्यं कृतवान्। तेन उक्तं यत् अपराधिभ्यः तेषामेव भाषया पुलिस् उत्तरं ददाति, वयं पुलिसस्य हस्तं मुक्तं कृतवन्तः। बिहारः सुशासनयुक्तं राज्यं अस्ति, तत् सर्वथा प्रतिष्ठापनीयम्। सर्वे विभागाः विकासकार्येषु एआई इत्यस्य उपयोगं कुर्वन्तु। यदि कस्यचित् विकासकार्यस्य अनुमानितव्ययः १ लक्षरूप्यकाणि भवति तथा च तत्र एआईतन्त्रज्ञानस्य सहायता स्वीक्रियते, तर्हि ५ तः ६ प्रतिशतपर्यन्तं व्ययन्यूनता भवति। कश्चन विभागः एआई द्वारा परीक्षणं विना कस्यापि अनुमानस्य स्वीकृतिं मा ददातु।
कार्यक्रमं उपमुख्यमन्त्री विजय कुमार चौधरी अपि सम्बोधितवान्।
मुख्यमन्त्रिणः समक्षं अग्निशमनसेवायाः जाम्बवज्जवानाः प्रदर्शनं कृत्वा तथा वाटरसैल्यूटिङ्ग्शो इत्यस्य माध्यमेन स्वअनुशासनं, साहसं, शक्तिं तथा राष्ट्रसेवां प्रदर्शितवन्तः। बिहारअग्निशमनसेवायाः महानिदेशिका शोभा अहोतकर मुख्यमन्त्रिणे पुष्पगुच्छं प्रतीकचिह्नं च प्रदाय स्वागतं कृतवती।
अस्मिन् अवसरे सांसदः देवेश चंद्र ठाकुर, बिहार राज्य आपदा प्रबंधन प्राधिकरण इत्यस्य उपाध्यक्षः डॉ. उदयकान्तः, मुख्यमन्त्रिणः प्रधानसचिवः दीपककुमारः, गृहविभागस्य अपरमुख्यसचिवः अरविन्दकुमारचौधरी, मुख्यमन्त्रिणः विशेषकार्यपदाधिकारी डॉ. गोपालसिंहः, पटनाप्रमण्डलस्य आयुक्तः मयङ्कवरवडे, पुलिसमहानिरीक्षकः पटना प्रक्षेत्रस्य जितेन्द्रराणा सहिताः अन्ये वरिष्ठाधिकारिणः तथा बिहारअग्निशमनसेवया सम्बद्धाः जवानाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani