मुख्यमंत्री लघु जल संसाधन विभागाय राजकीय नलकूपानां रक्षणं एवं संचालनं च समर्पयितुं निर्देशः दत्तः
पटना, 18 मईमासः (हि.स.)। मुख्यमन्त्री सम्राट चौधरी लोकसेवकआवासस्थिते ‘संकल्प’ सभागारे ट्यूबवेल, तडागः, आहरः, हृदाणां रखरखावसम्बद्धां समीक्षोपवेशनं कृतवान्। उपवेशने लघुजलसंसाधनविभागस्य सचिवः बी कार्तिकेय धनजी ट्यूबवेलस्य रखरखावसम्बद्धविभागीययोजना
मुख्यमंत्री ने लघु जल संसाधन विभाग को राजकीय नलकूपों के रख-रखाव एवं संचालन सौंपने का दिया  निर्देश


पटना, 18 मईमासः (हि.स.)।

मुख्यमन्त्री सम्राट चौधरी लोकसेवकआवासस्थिते ‘संकल्प’ सभागारे ट्यूबवेल, तडागः, आहरः, हृदाणां रखरखावसम्बद्धां समीक्षोपवेशनं कृतवान्। उपवेशने लघुजलसंसाधनविभागस्य सचिवः बी कार्तिकेय धनजी ट्यूबवेलस्य रखरखावसम्बद्धविभागीययोजना तथा प्रस्तावस्य विषये विस्तृतां जानकारीम् अददात्। पर्यावरण, वन एवं जलवायु परिवर्तन विभाग इत्यस्य अपरमुख्यसचिवः आनन्दकिशोरः तथा पंचायती राज विभाग इत्यस्य सचिवः मनोजकुमारसिंहः अपि अस्याः योजनायाः सम्बन्धे स्वस्वविभागीयसुझावान् प्रस्तुतवन्तौ।

उपवेशने मुख्यमन्त्रिणा लघुजलसंसाधनविभागाय राजकीयनलकूपानां रखरखावसञ्चालनयोः दायित्वं दातुं निर्देशः दत्तः। सहैव उक्तवान् यत् पर्यावरणवनजलवायुपरिवर्तनविभागः तथा पंचायतीराजविभागः अस्य कृते परस्परं समन्वयं कुर्वन्तु। मुख्यमन्त्री उक्तवान् यत् कृषिकार्ये सिंचनस्य महत्त्वपूर्णा भूमिका अस्ति। कृषकाणां हितसंरक्षणाय तेषां आयवृद्धये च सरकारः निरन्तरं कार्यं करोति। प्रत्येकक्षेत्रपर्यन्तं सिंचनजलप्रापणस्य योजनायाः विषये शीघ्रतया कार्यं कुर्वन्तु। क्षेत्रेषु सिंचनजलस्य प्रापणं अत्यावश्यकम् अस्ति, येन कृषिकार्ये कृषकाणां काचिदपि असुविधा न भवेत्।

तेन उक्तं यत् सर्वे सम्बद्धविभागाः समन्वयं स्थापयित्वा अस्मिन् विषये कार्यं कुर्वन्तु।

मुख्यमन्त्री उक्तवान् यत् राजकीयनलकूपानां रखरखावसञ्चालनयोः कृते सम्यग्रूपेण कार्यं क्रियताम्, येन मॉनसूनस्य अनिश्चितस्थितौ कृषकाणां पटवने कापि समस्या न भवेत्। ट्यूबवेलाः सम्यग्रूपेण कार्यशीलाः स्युः, एतत् सुनिश्चितं क्रियताम्। मतदानकेंद्रस्तरे प्रबन्धनसमितिः निर्मीयताम् या तेषां सञ्चालनरखरखावयोः कृते श्रेष्ठतया कार्यं कुर्यात्। तडाग, आहर, पईन तथा पोखराणामपि सिंचनकार्येषु महत्त्वपूर्णा भूमिका अस्ति। एतेषां सर्वेषां रखरखावः सम्यग्रूपेण क्रियताम्।

मुख्यमन्त्री उक्तवान् यत् पंचायतीराजविभागः राजकीयनलकूपानां रखरखावसञ्चालनयोः दायित्वं लघुजलसंसाधनविभागाय समर्पयतु। सहैव पंचायतीराजविभागः अपि स्वकीयम् अभियान्त्रिकीकोष्ठं निर्मातु। अस्मिन् विभागे अभियन्तृणां नियुक्त्या पंचायतस्तरे निर्माणकार्याणि तकनीकीकार्याणि च श्रेष्ठतया सम्पन्नानि भविष्यन्ति। तेन उक्तं यत् ग्रामीणक्षेत्रेषु ग्रामबाह्यनालानां आवरणस्य आवश्यकता नास्ति।

उपवेशने लघुजलसंसाधनमन्त्री संतोष कुमार सुमन, पंचायतीराजमन्त्री दीपक प्रकाश, मुख्यमन्त्रिणः प्रधानसचिवः दीपककुमारः, पर्यावरणवनजलवायुपरिवर्तनविभागस्य अपरमुख्यसचिवः आनन्दकिशोरः, मुख्यमन्त्रिणः सचिवः लोकेशकुमारसिंहः, पंचायतीराजविभागस्य सचिवः मनोजकुमारसिंहः, लघुजलसंसाधनविभागस्य सचिवः बी कार्तिकेय धनजी सहिताः अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani