Enter your Email Address to subscribe to our newsletters

- ‘एमपी स्वान’ योजनायै 526कोटिरुप्यकाणि अनुमतानि
भोपालम्, 18 मईमासः (हि.स.)।
मध्यप्रदेशसर्वकारेण डिजिटलगवर्नेंस इत्यस्य सुदृढीकरणाय स्टेटवाइडएरियानेटवर्क (एमपी स्वान) योजनां वर्ष २०३१ पर्यन्तं प्रवर्तयितुं ५२६ कोटिरूप्यकाणां स्वीकृतिः प्रदत्ता। अनेन नेटवर्कमाध्यमेन प्रदेशस्य १० सहस्राधिकानि शासकीयकार्यालयानि डिजिटलरूपेण सम्बद्धानि सन्ति, येन ऑनलाइनसेवाः, साइबरसुरक्षा तथा प्रशासनिकपारदर्शिता च नूतनां दृढतां प्राप्तवन्ति।
जनसंपर्कविभागस्य वक्तव्यम्
जनसंपर्काधिकारिणी जूही श्रीवास्तवा सोमवासरे अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे मध्यप्रदेशे डिजिटलगवर्नेंसस्य सशक्तं नागरिककेन्द्रितं च निर्माणं प्रति निरन्तरं प्रभाविकार्याणि क्रियमाणानि सन्ति। व्यवस्थायां पारदर्शिता, त्वरितसेवाप्रदानम् तथा तकनीकीदक्षतायाः संवर्धनस्य उद्देश्येन राज्यसरकारः डिजिटलअधोसंरचनां सुदृढां करोति। मन्त्रिपरिषदा अस्मात् कारणात् प्रदेशे स्टेटवाइडएरियानेटवर्क (स्वान) योजनायाः संचालनं विस्तारं च १ अप्रैल २०२६ तः ३१ मार्च २०३१ पर्यन्तं निरन्तरं स्थापयितुं ५२६ कोटिरूप्यकाणां स्वीकृतिः प्रदत्ता। योजनायाः क्रियान्वयनं मध्यप्रदेशराज्यइलेक्ट्रॉनिक्सविकासनिगमलिमिटेडद्वारा क्रियते।
स्वान योजना : सूचना-प्रौद्योगिकीक्षेत्रस्य महत्वपूर्णा डिजिटलअधोसंरचना
स्टेटवाइडएरियानेटवर्क (स्वान) सूचना-प्रौद्योगिकीक्षेत्रस्य महत्वपूर्णा डिजिटलअधोसंरचना अस्ति, यस्य स्थापना राष्ट्रीयई-गवर्नेंसपरियोजनायाः अन्तर्गतं कृता आसीत्। मध्यप्रदेशे वर्ष २००६-०७ मध्ये राज्य-, जिला- तथा विकासखण्डस्तरीय-शासकीयकार्यालयान् एकीकृतडिजिटलनेटवर्केन सम्बद्धान् कर्तुं अस्य योजनायाः आरम्भः कृतः।
एमपी स्वान नेटवर्कस्य कार्यप्रणाली
एमपी स्वानद्वारा भोपालस्थितमुख्यनेटवर्ककेन्द्रात् प्रदेशस्य सर्वे जिलाः विकासखण्डमुख्यालयानि च एमपीएलएस-प्रौद्योगिक्या सम्बद्धानि सन्ति। एतत् नेटवर्क डाटा, वॉयस तथा वीडियोसंचारस्य सुरक्षितां विश्वसनीयां च सुविधां प्रददाति, येन शासनस्य विविधाः ऑनलाइनसेवाः सुचारुरूपेण संचालिताः भवन्ति।
पारदर्शी तथा नागरिककेन्द्रित डिजिटलव्यवस्था
एमपी स्वान अद्य प्रदेशे डिजिटलगवर्नेंसइन्फ्रास्ट्रक्चरस्य मेरुदण्डरूपेण कार्यं करोति। अनेन विविधविभागानां सेवाभ्यः एकीकृतनेटवर्कप्लेटफॉर्मः प्रदत्तः अस्ति, येन शासनव्यवस्था अधिकपारदर्शी, उत्तरदायी तथा नागरिककेन्द्रिता अभवत्। वर्तमानकाले प्रायः १० सहस्राधिकानि शासकीयकार्यालयानि एमपीएलएस, आरएफ, ओएफसी तथा एलएएन-प्रौद्योगिकीभिः सम्बद्धानि सन्ति तथा ९९ प्रतिशताधिकं नेटवर्कअपटाइम सुनिश्चितं कृतम् अस्ति।
महत्वपूर्णसेवानां संचालनम्
संपदा २.०, सीसीटीएनएस, ई-कोर्ट, आरसीएमएस, आधार तथा ट्रेजरी इत्यादीनां महत्वपूर्णसेवानां संचालनम् अस्यैव नेटवर्कस्य माध्यमेन क्रियते। स्वानप्रौद्योगिक्याः क्रियान्वयनेन नेटवर्कप्रबन्धनं अधिकं सक्षमं जातम्। प्रमुखेषु नगरेषु १ जीबीपीएस-पर्यन्ता उच्चगतिकनेक्टिविटी स्थापिता अस्ति। सहैव बैंडविड्थव्यये प्रायः ५० प्रतिशतपर्यन्तं न्यूनता प्राप्ता अस्ति।
विविधविभागेषु डिजिटलसेवानां प्रगति
एमपी स्वान नेटवर्कद्वारा राजस्वविभागे भू-अभिलेख-, नामान्तरण-, नक्शा- तथा ई-डिस्ट्रिक्टसेवाः गतिं प्राप्तवन्ति। गृहविभागे वीडियोकॉन्फ्रेंसिंगाधारितविधिव्यवस्था तथा आपदाप्रबन्धनं सुदृढीकृतम्। शिक्षाविभागे ऑनलाइनपरीक्षा तथा छात्रवृत्तिसेवाः प्रगतिम् प्राप्तवन्ति।
तथैव वित्तविभागे आईएफएमएस-आधारितबजट- तथा पेंशनप्रबन्धनं सशक्तीकृतम् अस्ति। पंचायतग्रामीणविकासविभागे योजनानां ऑनलाइनमॉनिटरिंग तथा सामान्यप्रशासनविभागे ई-ऑफिस एवं डिजिटलफाइलट्रैकिंगप्रणालीद्वारा शासनव्यवस्था अधिकप्रभावी जाता।
साइबरसुरक्षा तथा आधुनिकनिगराणीव्यवस्था
नेटवर्कसुरक्षां सुदृढीकर्तुं पेरिमीटरयूनिफाइडथ्रेटमैनेजमेंट-आधारितसुरक्षाप्रणाली प्रवर्तिता अस्ति। अनेन आवक-जावक-नेटवर्कस्य सततनिगराणी तथा नियन्त्रणं सुनिश्चितं क्रियते, येन साइबरखतराभ्यः सुरक्षा लभ्यते। सहैव डिजास्टररिकवरीसाइटस्य स्थापना-प्रक्रिया प्रगतौ अस्ति, येन आकस्मिकपरिस्थितिषु अपि शासकीयसेवानां त्वरितपुनर्संचालनं सम्भवं भविष्यति।
भविष्यस्य उन्नतप्रौद्योगिक्यः
भविष्यस्य आवश्यकतानां ध्यानं कृत्वा हाई-स्पीडबैकबोननेटवर्क, ज़ीरोट्रस्टनेटवर्कआर्किटेक्चर तथा नेटवर्कएक्सेसकंट्रोल इत्यादिभिः उन्नतप्रौद्योगिकीभिः संचारः अधिकसुरक्षितः आधुनिकश्च निर्मास्यते।
डिजिटलइंडियामिशनस्य संवर्धनम्
एमपी स्वान योजनया प्रदेशे डिजिटलसुशासनस्य सुदृढीकरणे महत्वपूर्णा भूमिका निर्वहिता। योजनायाः निरन्तरतया एतत् बहुसुरक्षितं, तीव्रं, स्वचालितं तथा स्केलेबलनेटवर्कप्लेटफॉर्मरूपेण विकसितं भविष्यति। अनेन आगामिवर्षेषु डिजिटलसेवानां अधिकविस्तारः भविष्यति तथा “डिजिटलइंडिया” मिशनाय राज्यस्तरे नूतना गतिः प्राप्ता भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani