Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १८ मे-मासः (हि.स.)। मध्यप्रदेशस्य ऊर्जामन्त्री प्रद्युम्नसिंहतोमरः तथा नवीन-नवीकरणीय-ऊर्जामन्त्री राकेशशुक्लः अद्य ऊर्जा-विकास-निगमस्य व्हाट्सऐप-चैटबॉट-प्रचार-चलचित्रयोः शुभारम्भं करिष्यतः। प्रधानमन्त्री-सूर्यगृह-निःशुल्क-विद्युत्-योजनायाः डिजिटल-प्रचार-प्रसारार्थं एमपीयूवीएनएल-संस्थया तथा काउन्सिल-ऑन-एनर्जी-एनवॉयरनमेंट-एण्ड-वॉटर-संस्थया सहकारेण १८ मई सोमवासरे भोपालस्थे कुशाभाऊ-ठाकरे-इण्टरनेशनल-कन्वेन्शन-सेण्टर-मध्ये प्रातः १० वादने व्हाट्सऐप-चैटबॉट-प्रचार-चलचित्रयोः लोकार्पणं भविष्यति।
जनसंपर्क-अधिकारी क्रांतिदीप-अलूने इत्यनेन उक्तं यत् व्हाट्सऐप-चैटबॉट-प्रचार-चलचित्रयोः माध्यमेन नागरिकेभ्यः पीएम-सूर्यगृह-निःशुल्क-विद्युत्-योजनायाः सूचना सरलेन डिजिटल-माध्यमेन उपलब्धा भविष्यति। अनेन योजनायाः विषये जनसामान्येषु जागरूकता वर्धिष्यते तथा नागरिकाणाम् आवेदन-प्रक्रियायाः सौर-संयन्त्र-स्थापन-प्रक्रियायाश्च अवगमने साहाय्यं भविष्यति।
प्रमुख-नगरेषु आईईसी-अभियानस्य शुभारम्भः भविष्यति
मध्यप्रदेश-ऊर्जा-विकास-निगम-लिमिटेड्-संस्थया प्रदेशस्य प्रमुख-नगरेषु भोपालनगरे, इन्दौरनगरे, उज्जयिन्यां, ग्वालियरनगरे जबलपुरनगरे च लक्षित-सूचना-शिक्षा-संचार-जनजागरूकता-अभियानस्य शुभारम्भः क्रियते। एतदभियानं उपभोक्तृषु विश्वास-निर्माणाय, व्यवहारगत-परिवर्तनस्य प्रोत्साहनाय तथा योजनायाः प्रभावी-क्रियान्वयनस्य गतिवर्धनाय महत्त्वपूर्णं पदं भविष्यति।
जनसामान्येषु योजना लोकप्रियतां प्राप्नोति
प्रदेशेयोजनायाः विषये सततं सकारात्मक-परिणामाः दृश्यन्ते। अधुना यावत् मध्यप्रदेशे १ लक्षं ९६ सहस्रं ७९१ आवेदनानि प्राप्तानि सन्ति। तेषु १ लक्षं २४ सहस्रं ६६३ सौर-संयन्त्राणि स्थापितानि सन्ति। एतेषां संयन्त्राणां आहत्य क्षमता ४६७.०६ मेगावाट् अस्ति। भारत-सर्वकारेण अधुना यावत् ८७९.६९ कोटि-रूप्यकाणां अनुदानम् अपि प्रदत्तम् अस्ति।
चैटबॉट-आईईसी-शुभारम्भ-कार्यक्रमे भारत-सर्वकारस्य अधिकारिणः, जनपद-उपायुक्ताः, धनागार-प्रतिनिधयः, विद्युत्-वितरण-निर्माणीनां नगर-निगमस्य च अधिकारिणः तथा योजनया सम्बद्धाः पञ्जीकृत-विक्रेतारः अपि सहभागिनः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan