Enter your Email Address to subscribe to our newsletters

हैदराबाद-नगरम्, १८ मे-मासः (हि.स.)। बथिनी-परिवारेण दमा-रोगिभ्यः तथा फुफ्फुस-सम्बद्ध-अन्य-रोगैः पीडितेभ्यः जनेभ्यः प्रतिवर्षं वितर्यमाणं निःशुल्कं मत्स्य-प्रसादम् अस्मिन् वर्षे ८ जून-दिने मृगशिरा-कार्ति-अवसरे नामपल्ली-स्थिते नुमाइश-प्रांगणे वितरितं भविष्यति। अस्य विषये राज्यस्य परिवहन-मन्त्री पोंनम्-प्रभाकरः गुरुवासरे प्रशासनिक-अधिकारिभिः सह सभा आयोजिता।
वस्तुतः बथिनी-गौड-परिवारः विगत-१७९-वर्षेभ्यः निरन्तरं देशस्य विभिन्न-प्रदेशेभ्यः आगच्छद्भ्यः लक्षाधिकेभ्यः दमा-रोगिभ्यः तथा फुफ्फुस-रोग-पीडितेभ्यः जनेभ्यः निःशुल्कं मत्स्य-प्रसादं वितरति। अस्मिन् वर्षे अपि मत्स्य-प्रसाद-ग्रहणार्थं नामपल्ली-क्षेत्रे बहुसंख्यया रोगिणां समागमस्य सम्भावना वर्तते। यद्यपि अस्य कृते केवलम् एकः दिवसः निर्धारितः अस्ति, तथापि अत्यधिक-भीड-दृष्ट्या बथिनी-परिवारः सामान्यतया द्वितीय-दिने अपि एतत् वितरणं निरन्तरं करोति।
हैदराबाद-जनपदस्य प्रभारी-मन्त्री पोंनम्-प्रभाकरः गुरुवासरे कलक्टरेट-सभागारे उपायुक्ता प्रियंका-आला, बथिनी-परिवारस्य सदस्यैः तथा अन्यैः सम्बन्धित-अधिकारिभिः सह सभाम् अकरोत्। सभायां मन्त्री प्रभाकरः अवदत् यत् १७९-वर्षेभ्यः श्रद्धा-विश्वासयोः प्रतीकरूपेण प्रचलितम् एतत् मत्स्य-प्रसाद-वितरणम् हैदराबाद-नगरस्य विशिष्ट-वैशिष्ट्यम् अस्ति। तेन उक्तं यत् अस्मिन् वर्षे तेलङ्गाना-राज्यात्, देशस्य विभिन्न-राज्येभ्यः तथा विदेशेभ्यः अपि सहस्रशः भक्तानां दमा-रोगिणां च आगमनस्य सम्भावना अस्ति।
नामपल्ली-स्थिते नुमाइश-प्रांगणे मत्स्य-प्रसाद-वितरणार्थं पृथक् टोकन-वितानानि उद्घाटितानि भविष्यन्ति। अत्यधिक-सम्मर्द-दृष्ट्या पञ्चदश-शताधिकाः आरक्षकाः नियुक्ताः भविष्यन्ति। दूरस्थ-प्रदेशेभ्यः आगच्छद्भ्यः रोगिभ्यः तेषां परिवारजनेभ्यश्च निवास-भोजन-व्यवस्थाः स्थानीय-स्वयंसेवी-संस्थाभिः क्रियन्ते। मत्स्य-प्रसाद-वितरणार्थं तेलङ्गाणा-मत्स्य-विभागः द्विदिनपर्यन्तं मुरैल-मत्स्यानां आपूर्तेः व्यवस्था करोति। अस्य कृते एक-लक्षाधिकाः मुरैल-मत्स्याः सज्जीकृताः सन्ति। मत्स्य-विभागस्य एकेन वरिष्ठ-अधिकरिणा उक्तं यत् अतिरिक्तरूपेण ७५-सहस्राधिकाः मत्स्याः अपि सज्जीकृताः सन्ति।
उल्लेखनीयं यत् बथिनी-गौड-परिवारः १८४५-वर्षात् आरभ्य कोविड्-महामार्याः द्विवर्षं विहाय निरन्तरं नगरे मत्स्य-प्रसाद-वितरणं निर्विघ्नतया करोति। जनानां मान्यता अस्ति यत् अस्य मत्स्य-प्रसादस्य सेवनात् दमा-रोगात् तथा फुफ्फुस-सम्बद्ध-अन्य-रोगेभ्यः मुक्ति: लभ्यते।
मत्स्य-प्रसादस्य इतिहासः सेवन-विधिश्च
मत्स्य-प्रसादः एकया विशेष-विध्या सम्बद्धः अस्ति, यां बथिनी-परिवारः सज्जीकरोति। तेषां कथनम् अस्ति यत् एषा विधिः तेषां पूर्वजेभ्यः एकेन साधुना प्रदत्ता आसीत्। एषः प्रसादः वितरणात् एक-दिनपूर्वं पुरातन-हैदराबाद-क्षेत्रस्य दुग्धबाउली-स्थले स्थिते बथिनी-परिवारस्य पैतृक-निवासे सज्जीकृतः भवति, ततः आयोजन-स्थलं प्रति नीयते। अस्यां प्रक्रियायां लघु-जीवित-मुरैल-मत्स्यस्य मुखे पीतवर्णीयम् औषधीय-लेपं प्रपूर्य तत् प्रत्यक्षतया रोगिणः मुखे स्थाप्यते। मत्स्य-प्रसाद-ग्रहणकर्तृभ्यः ४५-दिनपर्यन्तं कठोर-नियमस्य पालनं मांसाहारस्य च त्यागं कर्तुं परामर्शः दीयते। विशेषता एषा यत् अधुना अस्य औषधस्य कृते किमपि शुल्कं न गृह्यते।
Hindusthan Samachar / Divya Ranjan