Enter your Email Address to subscribe to our newsletters

लखनऊ, 18 मईमासः (हि.स.)।उत्तरप्रदेशे योगीसर्वकारस्य जनकल्याणकारीनीतयः भूमिस्तरे प्रभावं दर्शयन्ति। समाज कल्याण विभाग द्वारा सञ्चालितः आईजीआरएस (इण्टीग्रेटेड ग्रिवांस रिड्रेसल सिस्टम) पटलं सामान्यजनानां समस्यासमाधानस्य दृढमाध्यमं जातम् अस्ति। डिजिटलतन्त्रज्ञानस्य माध्यमेन शिकायतानां त्वरितं पारदर्शि च निस्तारणं भवति, येन जनानां विश्वासः शासकीयव्यवस्थायां वर्धितः अस्ति। विशेषतया वृद्धलाभार्थिनः गृहस्थिताः एव स्वीयपरिवादाः अभिलेखयन्ति तथा तासां प्रगतिविषये सूचनामपि प्राप्नुवन्ति।
गृहे उपविश्य एव अभिलेख्यन्ते शिकायताः
आईजीआरएस पटलस्य माध्यमेन जनाः गृहे उपविश्य एव स्वीयां शिकायतां अभिलेखयितुं तस्याः प्रगतिविषये जानकारीं प्राप्तुं च शक्नुवन्ति। अनेन शासकीयकार्यालयानां परिभ्रमणं न्यूनं जातम् तथा प्रक्रिया अधिका पारदर्शिनी अभवत्। अपरतः ग्रामीणक्षेत्रेषु ऑफलाइनशिकायतप्रणाल्याः माध्यमेन जनानां समस्याः समाधीयन्ते। योगिसर्वकारस्य एषा व्यवस्था सुशासनस्य, पारदर्शितायाः तथा उत्तरदायित्वस्य दिशि महत्त्वपूर्णा पहल इति मन्यते, येन सामान्यजनानां प्रत्यक्षरूपेण लाभः भवति।
वृद्धावस्थापेन्शन तथा छात्रवृत्तिसम्बद्धमामलानां प्राप्यते प्राथमिकता
समाजकल्याणविभागस्य अधिकारिणः उक्तवन्तः यत् वृद्धावस्थापेन्शन, छात्रवृत्ति तथा अन्यसामाजिकसुरक्षायोजनाभिः सम्बद्धाःपरिवादाः प्राथमिकतायाः आधारेण निस्तारिताः भवन्ति। अनेन वृद्धजनानां छात्राणां च समये आर्थिकसाहाय्यं प्राप्यते। आर्थिकदृष्ट्या दुर्बलवर्गाणां कृते एताः योजनाः महद्रक्षणरूपेण सिद्धाः भवन्ति। विभागस्य प्रयासः अस्ति यत् पात्रलाभार्थिनः कस्यापि प्रकारस्य कष्टस्य विलम्बस्य वा सामना न कुर्वन्तु।
१४५६८ सहायतासंख्या अभवत् आधारः
समाजकल्याणविभागेन सम्बद्धस्य कस्यापि समस्यायाः, शिकायतायाः अथवा योजनासम्बद्धजानकारीप्राप्त्यर्थं नागरिकाः १४५६८ समाजकल्याणहेल्पलाइन इत्यत्र सम्पर्कं कर्तुं शक्नुवन्ति। अस्याः हेल्पलाइनस्य माध्यमेन वृद्धावस्थापेन्शन, छात्रवृत्ति, पारिवारिकलाभयोजना सहितानां विभिन्नयोजनानां सम्बद्धपरिवादानां समस्याणां च समाधानं कर्तुं शक्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani