माेदी ओस्लोनगरं प्राप्नोत्, भारतीयप्रधानमंत्रिणः चतुर्दशकेभ्यः परं नार्वेयात्रा
ओस्लो, 19 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी स्वस्य षड्देशीयायाः पञ्चदिवसीयायाः विदेशयात्रायाः चतुर्थदिने सोमवासरे नार्वेदेशस्य राजधानीम् ओस्लो-नगरं प्राप्तवान्। ओस्लो-नगरं प्राप्ते सति नार्वेदेशस्य प्रधानमन्त्री योनासगारस्टोरे-महोदयः विमानस
ओस्लो पहुंचने पर नार्वे के प्रधानमंत्री योनास गार स्टोरे समेत प्रतिनिधिमंडल के अन्य सदस्यों से मिलते प्रधानमंत्री नरेन्द्र मोदी।


ओस्लो पहुंचने पर नार्वे के प्रधानमंत्री योनास गार स्टोरे ने प्रधानमंत्री नरेन्द्र मोदी का हवाई अड्डे पर स्वागत किया।


ओस्लो, 19 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी स्वस्य षड्देशीयायाः पञ्चदिवसीयायाः विदेशयात्रायाः चतुर्थदिने सोमवासरे नार्वेदेशस्य राजधानीम् ओस्लो-नगरं प्राप्तवान्। ओस्लो-नगरं प्राप्ते सति नार्वेदेशस्य प्रधानमन्त्री योनासगारस्टोरे-महोदयः विमानस्थानके तस्य स्वागतं कृतवान्। चत्वारिंशद्वर्षेभ्यः अधिककालानन्तरम् एषा कस्यचित् भारतीयप्रधानमन्त्रिणः प्रथमा नार्वेयात्रा अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी १९ मे-दिनाङ्के ओस्लो-नगरे आयोजिते तृतीयभारत-नॉर्डिक-शिखरसम्मेलने सहभागं करिष्यति। अस्मिन् अवसरे सः नॉर्डिकदेशानां नेतृभिः सह विविधद्विपक्षीय-क्षेत्रीयविषयेषु चर्चा करिष्यति।

प्रधानमन्त्री मोदी सामाजिकमाध्यममञ्चे एक्स इत्यत्र अलिखत् यत् सः ओस्लो-नगरं प्राप्तवान् तथा विमानस्थानके प्राप्तस्य उष्णस्वागतस्य कृते प्रधानमन्त्री योनासगारस्टोरे-महोदयस्य प्रति कृतज्ञः अस्ति। तेन उक्तं यत् चत्वारिंशद्वर्षेभ्यः अधिककालानन्तरम् एषा कस्यचित् भारतीयप्रधानमन्त्रिणः प्रथमा नार्वेयात्रा अस्ति तथा तस्य विश्वासः अस्ति यत् अनेन भारत-नार्वे-मैत्रीसम्बन्धेषु नूतना ऊर्जा संवर्धिता भविष्यति।

प्रधानमन्त्रिणा उक्तं यत् सः नार्वेदेशस्य राजा हेराल्डपञ्चम-महाराजेन तथा महाराण्या सोन्या-महोदयया सह मेलनंकरिष्यति तथा प्रधानमन्त्री योनासगारस्टोरे-महोदयेन सह द्विपक्षीयवार्तां अपि करिष्यति। १९ मे-दिनाङ्के ओस्लो-नगरे आयोज्यमानं तृतीयभारत-नॉर्डिक-शिखरसम्मेलनं नॉर्डिकदेशानां स्वसमकक्षनेतृभिः सह मिलनस्य महत्वपूर्णम् अवसरं प्रदास्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani